________________
२ - न्यायमतखंडनम्
दास्तथैवाहो( स्वि )दन्यथै (वे )ति । तत्ते चिन्त्यमानमिहातिप्रसज्यत
[ १३९
स कालात्ययापदिष्टः । स च त्रिधा भिद्यते प्रत्यक्षविरुद्ध आ' गमविरुद्ध उभयविरुद्धश्चेति ( 1 ) प्रत्यक्षविरुद्धो यथा अनुष्णोग्निर्द्रव्यत्वादुदकवत् । आगमविरुद्धो यथा ब्राह्मणेन सुरा पातव्या द्रवत्वात् क्षीरवत् । उभयविरुद्धो यथा रश्मिवच्चक्षुरिन्द्रियत्वाद् घ्राणादिवदिति । न चायं किल पक्षविरोधः पक्षविरोधस्य प्रतिक्षेपादिति । तदेतत् त्रैरूप्यलक्षणानववोधवैशद्यं (1) त्रैरूप्यं हि यदा स्वं प्रमाणैः परिनिश्चितं पक्षधर्मत्वादिकं त्रयं च यत्र बाधा तत्र प्रतिबन्धोस्ति । बाधाविनाभावयोविरोधात् । अविनाभावो हि सत्येव साध्यधर्मे हेतोर्भावः कथञ्चासौ तल्लक्षणो धर्मिणि हेतुः स्यान्न चात्र साध्यधर्म इत्यादिकमत्राबाधितविषयत्वदूषणानुसारेण वक्तव्यं । यत्र पुनरियं बाधोदाहृता न तेषां त्रैलक्षण्यं मनागप्यस्ति प्रतिबन्धवैकल्यात् । अभ्युपगतपक्षप्रयोगस्य च पक्षदोष एवायं युक्तः । यत्पुनः पक्षदोषत्वपरिहाराय बह्वसम्बद्धमुग्राहि' तं तदत्यन्तमसारमिति नेहावसीयते ॥ ० ॥
यस्मात्प्रकरणचिन्तेति प्रकरणं भाष्ये निरूपितं । तस्योदाहरणं । अणुरण्वन्तरकार्यत्वं प्रतिपद्यते नवेति चिन्तायाङकश्चिदभिधत्ते । अणुरण्वन्तरकार्यो रूपादिमत्वात् तद्व्यणुकादिवदिति । योसावणोरणुः कारणत्वेनोपादीयते तत्रापि रूपादिमत्वमस्तीति चिन्ता किमियं रूपादिमत्वादण्वन्तरकार्यो न वेति चिन्ता- 87a याञ्च यदि तस्याप्यण्वन्तरकार्यत्वं रूपादिमत्वादिति वक्ति तदा तस्यापि रूपादिमत्वमस्तीति पुनरपि चिन्ता' तदेवमनवस्थारूपं प्रकरणं प्रवर्त्तयतीति प्रकरणसम इत्युच्यते । अथाणुरण्वन्तरकार्यत्वं न प्रतिपद्यते रूपादिमत्वे सति तदानैकान्तिको हेतुरिति तस्माद् भिद्यतेऽनैकान्तिकात् प्रकरणसमः । न चायविरुद्धोऽविपर्ययसाधकत्वात् । नासिद्धः पक्षधर्मत्वदर्शनात् । न कालात्ययापदिष्टः प्रत्यक्षागमाभ्यामबाध्यमानत्वात् । अतोऽर्थान्तरमिति । अथवा प्रदेशे करणं प्रकरणञ्चेति कारणसिद्धिरित्यर्थः । प्रदेशे सिद्धिरितीयं चिन्ता यस्माद्धेतोरपदिष्टा भवति स प्रकरणसम: * स प्रदेशसाधकत्वात् समः । यथैकदेशेऽसाधकत्वन्तथेतरत्रापीत्यसाधकत्वसामान्यात् समः। तस्मादेकदेशवर्त्ती धर्मः प्रकरणसमः । तद्यथा पृथिव्यप्तेजोवा य्वाकाशान्यनित्यानि सत्तावत्वादिति । अत्रापि यद्यक्षपादमतानुसारी तावदेवं प्रमाणयति । परमाणुः परमाण्वन्तरपूर्व्वको रूपादिमत्वाद् द्वयणुकादिवदिति तदा तस्याभ्युपेतविरोध इति नायमतीतकालाद् भिद्यते । अथ बौद्धः करोति । तदापि हेतोरसिद्धिः परमाणूनां रूपादिव्यतिरेकेणानभ्युपगमात् । अयोगाच्च' द्वयदीनाञ्चाभावादुभयविकलो दृष्टान्तः । यदाप्यनपेक्षितसिद्धान्तो न्यायवादी ब्रूते तदापि
१८