________________
१४० ]
वादन्यायः
द्वितीयपक्षोदितदोषानिवृत्तिरिति नायमसिद्धाद्वयावर्त्तते । योऽप्यनुमेयैकदेशवर्त्ती धर्मः पृथिव्यादीन्यनित्यानि गन्धवत्वादिति अयमप्यपसिद्धान्तान्तर्भूत एवेति नपृथग्वा87b च्यः । नासिद्धः पक्षैकदेशधर्मत्वात् । सपक्षैकदेशर्वात्तव' दिति चेत् विषमोयमुपन्यासः । सपक्ष एव च सत्वमित्यत्र हि समुच्चीयमानावधारणमेव न सकलसपक्षधर्मतां साधनस्य प्रतिपादयति । अनुमेये सत्ववचनं पुनरयोगव्यवच्छेदेन नियन्तृभूतमशेषसाध्यधमिधर्मतायाः प्रतिपादकमित्यनेनैव पक्षकदेशासिद्धभेदानामपोहः कृत इत्यपार्थकं यत्नान्तरमिति यत्किञ्चिदेतत् ॥०॥
भाविविक्तिोप्यत्रैव खररवे पतितः । प्रकरणसममन्यथा समर्थयति । यस्माद्वेतो ( : ) प्रकरणचिन्ता विपक्षस्यापि विचारः पश्चाद् भवति स एवं लक्षणो हेतुनिर्णयाय योपदिश्यमानः प्रकरणसमो भवति । प्रकरणे साध्ये समस्तुल्यः सत्त्वे सत्त्वे वा यथा सत्सर्वज्ञमितरतद्विपरीतविनिर्मुक्तत्वाद् रूपादिवदिति । यस्मादयं हेतुरुभयत्र समानो योप्यस त्वं साधयति तस्यापि समानः । कथमसत्सर्वज्ञत्वमितरतद्विपरीतविनिर्मुक्तत्वात् खरविषाणवदिति । न चायं किलोभयधर्मत्वेप्यनैकान्तिको विपक्षवृत्तिवैकल्यात् । तदिदमाचार्येण स्वयं प्रमाणविनिश्चये * प्रतिसि [ ? षि ] द्धं । कम्पुनरत्र भवान् विपक्षं प्रत्येति साध्याभावं । कथमिदानीं हेतुं विपक्षवृत्तिरुभयधर्मेणैवेत्यादिना । अर्थग्रहण व्याख्याने च यदुक्तं तदत्रापि वक्तव्यं । विशेषेण दूषणञ्चास्य प्रपञ्चेनोक्तमेव । एवं प्रकरणसमातीतकालयोरनुपपत्तिः । साध्यव्यभिचारस्य तु युज्यते हेत्वाभासत्वं न तु यथा भवतामभ्युपगमः । तथा हि भवन्तः सन्दिग्धविपक्षव्यावृत्तिकस्यानैकान्तिकत्वं न प्रतिपद्यन्ते । अदर्शनमात्रेणैव व्यतिरेकसिद्धयभ्युपगमात् । अत एव च भवद्भिरपगतस [? श]ङकैरेवं प्रयुज्यते प्राप्यकारिणी चक्षुःश्रोत्रे बाहयेन्द्रियत्वात् घ्राणादिवत् । सविकल्पं प्रत्यक्षं प्रमाणत्वादनुमानवदित्यादि । न चादर्शनमात्रेणैव विना प्रति88 बन्धेन व्यतिरेकसिद्धिरिति प्रतानितमन्यत्र ।
आत्ममृच्चेतनादीनां यो भावस्याप्रसाधकः ।
स एवानुपलम्भः किं हेत्वभावस्य साधक (४५) इत्यादिना ।
तथा सपक्षविपक्षयोः सन्दिग्धः सदसत्वस्यापि सम्यग्ज्ञानहेतुत्वमेव युष्माभिरिष्यते नानैकान्तिकत्वं यथा सात्मकं जीवच्छरीरम्प्राणादिमत्त्वादिति । अस्य च तद्भावः प्रतिपादितः प्रमाणविनिश्चया' दौ विरुद्धप्रभेदस्तु भारद्वाजविहितः प्रति
* आचार्यधर्मकीर्तिप्रणीतेषु सप्तसु न्यायप्रबन्धेष्वन्यतमो ग्रथः (bStangyur, mdo.XCV. 11)