________________
२–न्यायमतखंडनम्
[ १४१
ज्ञाविरोधप्रस्ताव एव निराकृतः । साध्यसमेपि योयमन्यथासिद्धो वर्ण्यते यथानित्याः परमाणवः क्रियावत्वाद् घटादिवदिति अयमपि किल साध्यसमो यस्मात् मूर्तिक्रियारूपादिमत्वादणूनां क्रियावत्वं नानित्यत्वादिति । स नोपपद्यते । धर्मिणि सिद्धत्वान्नहि धर्मिणि विद्यमान एवासिद्धो हेतुर्युज्यते । सर्वहेतुनामसिद्धताप्रसङगात् । नैतदेवन्नहि पक्षेस्तीत्येतावता पक्षधर्मत्वं । साध्यवशेन हि धर्मिणः पक्षधर्मत्वमिष्यते । केवलस्य साध्यत्वा' त् ( 1 ) न च साध्यो धर्मो यदि धर्मिणि तेन साधनेन विना न सम्भवति तस्य च साधनस्य साध्यधर्माभावे धर्मिणा सम्भवस्ततो हेतोः पक्षधर्मत्वं । यदा पुनरन्यथापि साधनायोपात्ते धर्मिणि धर्म उपपद्यते तदा हेतुत्त्वमेवञ्च विशिष्टमेव सत्वं पक्षधर्मत्वेन विवक्षितं । अन्यथासिद्धत्वं युक्तमेव साध्यसमं । तदिदमत्र प्रतिविधानं' यदि खलु साध्यधर्माभावे धर्मिणि असम्भवो हेतोरेवं विधमेव सत्वं पक्षधर्मत्वेन विवक्षितं न तु भावमात्रं तदा किन्तदित्त्थंभूतं पक्षधर्मत्वमविज्ञातमेवानुमेयप्रकाश' कमाहोस्वित् परिनिश्चितमेवेति प्रकारद्वये यद्यविज्ञातं प्रकाशकं तदाज्ञापकहेतुन्यायमतिवर्त्तते ( 1 ) ज्ञापको हि हेतुः स्वात्मनि ज्ञानापेक्षो ज्ञाप्यमर्थं प्रकाशयति । सत्ता' मात्रेण च हेतवो विप्रतिपत्तिनिराकारणपटवः सन्तीति 88b प्रतिवादिनां परस्परपराहतं प्रवचननानात्वं न भवेत् । विज्ञातस्यापि गमकत्वे "प्रमाणाद्वा तस्य परिनिश्चयः प्रमाणाद्वा । न तावदप्रमाणस्य भूतार्थनिश्चयहेतुत्वाभावादप्रमाणाद् गतिरन्यथा प्रामाण्यमेवावहीयते । यस्मादिदमेव प्रमाणस्य प्रमा
त्वं यद्यथावस्थितवस्तुप्रकाशकत्वं । तच्चेदमप्रमाणस्याप्यस्ति तदा कथं तद प्रमाणात्साध्ये धर्मिणि विना साध्यधर्मेणासभूष्णोर्हेतोः सत्त्वम्पक्षधर्मत्वेनाधिगम्यते तदापि यत एव प्रमाणाद्धेतोः सिद्धिस्तत एव साध्यधर्मस्यापीयं जायत इति किमर्थमयमकिञ्चित्करो हेतुरूपादीयते । न च हेतोरेव केवलस्य ततः सिद्धि + ( : ) साध्यधर्मस्य तु नेति युक्तम्वक्तुं । हेतोरपि ततोऽसिद्धिप्रसङ्गात् तथा हयेवमयं हेतु ( : ) तत्र धर्मिणि सिध्यति यद्यनेन साध्यधर्मेण विनेह नोपपद्यते सहैव तूपपद्यत इति सिध्येत् । तथा च कथन्तत एव प्रमाणात्साध्यधर्मस्यापि न सिद्धिः सञ्जातेति चिन्तनीयमेतत् । एवञ्च तेनैव प्रमाणेन सहास्य साध्यधर्मस्य । गम्यगमकभावो न त्वनेन हेतुनेति महदनिष्टमापद्यते । एवम्विधपक्षधर्मत्वसमाश्रयणे च यावत् साध्यस्यासिद्धिस्तावद्धेतोरपि यावच्च हेतोरसिद्धिस्तावत्सा' ध्यस्यापीति परस्पराश्रयप्रसङ्गः । पक्षधर्मत्वनिश्चयवेलायाञ्च साध्यधर्मसिद्धिः सम्पद्यत इति व्यर्थमुत्तरलिङ्गरूपानुसरणमित्थञ्च न द्विलक्षणश्चतुर्लक्षणः पञ्च लक्षणश्च हेतुर्वक्तव्यः । अस्मन्मते तु धर्मिणि सत्वमात्रं विज्ञाय च तदुत्तरकालमन्वयव्यतिरेकयोविज्ञानमन्वयव्यतिरेकौ वा सर्वोपसंहारेण विज्ञायत उत्तरकालं धर्मिणि 89a सत्वमात्रं विज्ञातमतश्चानन्तर्येणैव तत्सामर्थ्यात्साध्यधर्मस्य तत्र प्रतीतिरुप