________________
वादन्यायः
१४२] इति प्रतन्यते । हेत्वाभासाश्च यथान्यायन्निग्रह' स्थानमिति एतावन्मात्रमिष्टमिति ॥
लोकेऽविद्यातिमिरपटलोल्लेखनस्तत्त्ववृष्टे र्वादन्यायः परहितरतैरेष सद्भिः प्रणीतः । तत्वालोकं तिमिरयति तं दुर्विदग्धो जनोयन्तस्मा द्यत्नः कृत इह मया तत्समुद्घातनाय ॥ त् ॥(३)
पद्यते (1) तेनेदमत्र सकलं दोषजालं नभसीवामले जले नावस्थानमलं लभत इत्यलमप्रतिष्ठित मिथ्याप्रलापैरिति विरम्यते। । यद्येवं किं पुनरत्रेष्टमिष्टमित्याह । हेत्वाभासास्तु यथान्यायमित्यादि (2a7) ये न्याया हेत्वाभासास्तदुक्तिन्निग्रहस्थानम्भवति । ते च येस्माभिरुक्ताः॥
एकाप्रसिद्धिसंदेहे प्रसिद्धव्यझ्विारभाक् । द्वयोविरुद्धोसिद्धौ च संदेहव्यभिचारभागि(४६)ति ।
ननु चायं वादन्यायमार्गः सकललोकानिबन्धनबन्धुना वादविधानादावार्य वसुबन्धुना महाराजपथीकृतः (1) क्षुण्णश्च तदनु महत्यां न्यायपरीक्षायां कुमतिमतमन्त[ ? मत्तमातङगशिरःपीठपाटनपटुभिराचार्यदिग्नागपादस्तत्किमिदं पुनश्चवितचर्वणमास्थितं त्वयेति । एतच्चोद्यपरिहारपरमिमं श्लोकमुपन्यस्यतिपन्यस्यते लोक(20a8)इत्यादि । तिमिरञ्च पटलञ्चेति तिमिरपटलं अविद्यैव तिमिरपटलमविद्यातिमिर पटलं भूतार्थदर्शनविबन्धकत्वात् । तस्योल्लेखनो वादन्याय इति सम्बन्धः (1) उल्लेखनशब्दः कर्तृ साधनः। कस्य पुनरविद्यातिमिरपटलमित्याह । तत्त्व दृष्टस्त त्वदर्शनस्य । प्रज्ञालोचनस्येत्यर्थः। य एष समनन्तरमावेदितो वादन्यायः। सद्भिः पूर्वाचार्यैः परहितरतैः करुणापारतन्त्र्याल्लोकान् सम्यग्वम॑नि व्यवस्थापयितु प्रणीतः परां प्रसिद्धि नीतो लोके सुष्टु स्फुटीकृत इत्यर्थः । न तु परस्पर्द्धया नापि यशःकामतादिभिः। त [? य] खेवन्तर्हि तदवस्थितं चोद्यमित्यत आह । तत्वस्यालोकमुद्योतम्वादन्यायमाचाचार्यरूपदिष्टं (1) तिमिरयत्यन्धकारीकरोति कुदूषणतमसा प्रच्छादयतीति यावत्। कः पुनरसावतिसाहसिको यो महानागैः क्षुण्णं पन्थानं रोद्धमीहत इत्याह दुर्विदग्धः सम्यग्विवेकरहिततया जनोयमुद्योतकरप्रीतिचन्द्र(?)भाविविक्तप्रभृतिः। यतश्च एवं तस्माद्यत्नः कृत इह वादन्यायप्रकरणे मया तस्य महद्भिरुद्भावितस्यान्तराजतैरवधूतस्य समुज्वालनाय। कुदूषणपरिहारेण तन्नीत्युद्योतनेन मम व्यापृतत्वान्न मया पिष्टं पिष्टमिति संक्षेपार्थः॥