________________
१३० ]
प्येकेनैव साधनेन तन्निष्ठेन सत्त्वोपादानमिति । न दोषमुद्भाव ( य ) - न्नेवापरस्यानुद्भावनान्निग्रहार्हः अथ पूर्वपक्षवादी उत्तरपक्षवादिनं निग्रहप्राप्तं न निगृह्णाति तदा तयोर्न्यायेनैकस्यापि पूर्ववज्जयपराजयौ दोषाभासं ब्रुवाणमुत्तरवादिनं स्वसाधनादनुत्सारयन्न समर्थितसाधनाङ्गत्वान्न जयो वादिनः । सर्वदोषासम्भव प्रदर्शनेन साधनाङ्गासमर्थनात् । नाप्युत्तरवादिनो उभयदोषाप्रतिपादनात् । तस्मादेवमपि न पर्यनुयोगोपेक्षणं नाम पराजयाधिकरणमिति ॥ ॥
वादन्यायः
अस्थाने' निग्रहस्थानानुयोगो निरनुयोज्यानुयोगः (न्या०५।२।२२) । निग्रहस्थानलक्षणस्य मिथ्याव्यवसा ( या ) दनिग्रहस्थाने निगृहीतोसी ति
माह । एकसाधनवचनवदिति (1923) । यथेत्याद्यस्यैव विभागः । एकस्यार्थस्य क्षणिकत्वादेः प्रतिपादनायानेकस्य साधनस्य सत्वकार्यत्वप्रयत्नोत्थत्वादेः सद्भावेपि सत्येकेनैव सत्वादीनामन्यतमेनोपात्तेन तस्य क्षणिकत्वादेरर्थस्य सिद्धेनिश्चयान 812 सर्व्वेषां साधना' नामुपादानं । तथैकेनापि दोषेण तत्साधनविघातान्न सर्व्वापादानमितीदन्दृष्टान्तेन साम्यं । इति तस्मान्नोत्तरपक्षवादी पूर्व्वमेकं दोषमुद्भावयन्नेवापर'स्य दोषान्तरस्यानुद्भावनानिग्रहार्हः । पूर्व्ववदिति साधनाभासेनाप्रतिपादनात् । भूतदोषानभिधानाच्च ।
ननु च कथन्न वादिनो जयो यावता न तेन साध' नाभासः प्रयुक्तः । प्रतिवादी त्वसन्तं दोषमुद्भावयतीत्यत आह । दोषाभासं ब्रुवाणमुत्तरपक्षवादिनं ( 1824) स्वसाधनात्सकाशादनुसारयतोऽनिवर्त्तयतस्त' दुक्तदूषणाभासत्वेनाप्रतिपादयत इति यावत् । वादिनो न जयः कस्मादसमन्वितसाधनाङ्गत्वात् । असमन्वितसाधनाङगं येन तस्य भावस्त' त्वं । एतदेव कुत इत्याह (1) सर्व्वदोषाभावप्रदर्शनेन साधनाङगसमर्थनात् ( 1925 ) । इत्थम्भूतलक्षणे करणे वा तृतीया ( पाणिनि २ । ३ । २९ ) । असमर्थितत्त्वात् साधना' भास एव तेन प्रयुक्त इति संक्षेपार्थः । नाप्युत्तरपक्षवादिनो जय इति वर्त्तते । तस्मादेवमपीति यदि पूर्वपक्षवाद्युत्तरपक्षवादिनं न निग्रहप्राप्तं निगृह्णाति न केवलमुत्तरवादिसम्बन्धेनेत्यपि शब्दः ॥ ० ॥
।
1
निरनुयोज्यस्यानुयोगः (1926) । अनिग्रहप्राप्ते निगृहीतोसीत्यभिधानं । किं' पुनरेवं ब्रूत इत्याह (1) निग्रहस्थानलक्षणस्य मिथ्याव्यवसायाद्य ( 1926) थोक्तस्य निग्रहस्थानलक्षणस्य सम्यगपरिज्ञानादित्यर्थः । एवञ्चाप्रतिपत्तितो निगृ'हयते ।
' अनिग्रहस्थाने -- इति न्या० भा० पाठः ।