________________
२-न्यायमतखंडनम्
[१२९ हप्राप्तः स्वकौपीनं विवृणुयादिति । अत्रापि यदि साधनवादिनं निग्रहप्राप्तमुत्तरवादी न पर्यनुयुक्ते, अप्रतिभैवास्योत्तराप्रतिपत्तेरिति न पर्यनुयोग्योपे। ०क्षणं पृथग्निग्रहस्थानं न्यायचिन्तायां पुनर्नेद्वयोरेकस्यापि अत्र जयपराजयौ । साधनाभासेनार्थाप्रतिभासनात् भूतदोषाभिधानाच्च । अथ कश्चिद्दोषमुद्भावयति कश्चिन्न तदा निग्रहमहति । उत्तरप्रतिपत्तेः । अर्हत्येव सतो दोषस्यानुद्भावनादिति चेत् । न । सत इति कृत्त्वा सर्वे दोषा अवश्यवक्तव्या अवचनेन वा निग्रहः । एकेनापि तत्साधनविघातादे कसाधनवचनवत् । यथैकस्यार्थस्यानेकसाधनसद्भावे
हमनेनोपेक्षितो निग्रहस्थानस्यापरिज्ञानात् । तस्मादयन्दोषवानिति नाप्युपेक्ष इति युक्तं । यस्मादसौं न जानात्येवायं निग्रहप्राप्त इति । तथा हयपरिज्ञानादेवासौ नानुयुक्ते निग्रहं प्राप्तोसीति । परिज्ञाने वा कथमुपेक्षेत। उपेक्षणे वा समचित्तः कथमेवं प्रकटयेदयं मयोपेक्षितः स दोषस्ततो मम पर्यनुयोज्योपेक्षणं निग्रहस्थानमिति । न चान्यस्तृतीयः कश्चिदिहानुषङगी तत्कनेदं चोदनीयमित्येतत् सर्वमाशडक्य पक्षिल स्वामी ब्रूते। एतच्च पर्यनुयोज्योपेक्षणं वक्तव्यञ्चोदनीयङकस्य पराजय इत्येवं वाविप्रतिवादिभ्यां प्रगुणा तदन्यैर्वा पर्यनुयुक्तया पृष्टया सत्या परिषदा' प्राश्निकर्वक्तव्यमित्यर्थः। च शब्दोऽवधारणार्थः । एतदेव (?एवमेव) अन्यानि निग्रहस्थानानि वादिप्र (ति)वादिभ्यामेवोद्भाव्यन्ते। एतत्पुनःप्राश्निकरेव। किं पुनः कारणं ताभ्यामेव नोच्यत इत्याह । न खलु निग्रहप्राप्तः स्वकौपीनं स्वदोषं विवृणुयात् 80a (18bro)प्रकाशयेत् । अत्रापीत्याद्याचार्यः । यदि तु न्यायश्चिन्त्यते तदानकस्यापि जयपराजयो न्याय्यौ। कथं वादिनो जय इत्याह साधनाभासेन जिज्ञासितस्यार्थस्याप्रतिपादनात् । अत एव न प्रतिवादिनोपि पराजयो वादिविवक्षितार्थसिद्धयपेक्षया प्रतिवादिनः पराजयव्यवस्थापनात् । प्रतिवादिनस्तहि किं जय इत्याह (1) भूते दोषानभिधानाच्च (19a1)। अतएव च न वादिनः पराजयस्त दूषणापेक्षया तद्व्यवस्थितेः । अथोत्तरपक्षवाद्यनेकदोषसद्भावेपि वादिप्रोक्तस्य साधनस्य कञ्चिद्दोषमुद्भावयति कञ्चिन्न । न तदासौ' निग्रहमर्हति । किङकारणमुत्तरस्य प्रतिपत्तेरभिधानादित्यर्थः। पर आह। अर्हत्येव निग्रहं सर्वेषान्दोषाणामनुभावनात्। आचार्य आह। न खलु भोः सन्त इति कृत्वा सर्वे दोषा अवश्यं वक्तव्याः प्रतिवादिना। अवचने वा दोषान्तरस्य निग्रहो भवति नेति वर्तते । कस्मात् सर्वे दोषा नोद्भाव्यं त इत्याह । एकेनापि (19a2) दोषेणासिद्धत्वादिनोभावितेन न तस्य वाविप्रयुक्तस्य साधनस्य विघातात्। साध्यसिद्धि प्रत्यसमर्थत्वप्रतिपादनादित्यर्थः । भाव साधनो वा साधनशब्दः । अत्रैव दृष्टान्त