________________
वादन्यायः
१२८] प्रसङ्गमन्तरेण–मेनैव किन्न व्यभिचारित इति चेत् । यत्किञ्चिदेतत् । सन्ति ह्येवंप्रकारा अपि व्यवहारा लोक इति । अथ तदुपक्षेपमभ्युपगच्छत्येतदप्युत्तराप्रतिपत्तौ न तत्साधने निग्रहो नापरत्र स्वदोषोप'क्षेपात्तत्साधननिर्दोषतायां हि तदभ्युपगम एवोत्तराप्रतिपत्तिरिति तावतैव पूर्वमापभनिग्रहस्य परदोषोपक्षेपस्यानपेक्षणीयत्वादिति ॥ ___ निग्रहप्राप्तस्यानिग्रह (:) पर्यनुयोज्योपेक्षणं (न्या० ५।२।२१) (0) पर्यनुयोज्यानामनिग्रहोपपत्त्या चोदनीयः तस्योपेक्षणं निग्रहप्राप्तौ सत्यननुयोगः। एतच्च कस्य पराजय इत्यनुयुक्तया पर्षदा वक्तव्यं न खलु निग्र
आचार्य आह। यत्किञ्चिदेतद(18b6)ौद्योतकरं वचो यस्मात् सन्ति हवं प्रकारा वैदग्ध्यप्रवर्तिता व्यवहारा लोके। तथा हि मातरो भावत्क्यो बन्धक्यः स्त्रीत्वादितरबन्धकीवदित्युक्ताः - पशुपालादयोपि जडजनङगमादिजनसाधारणं वैदग्ध्यमनुसरं तः प्रत्यवतिष्ठन्ते। तावकीनापि माता तथा स्यादिति न च तेऽनेन प्रकारेण स्वस्याः स्वस्या मातुर्बन्धकीत्वं प्रतिपद्यन्ते । अपि तु भङग्या हेतुव्यभिचारचोदनया परं प्रतिवदन्ति । तस्मादेवं बालहालिकादिलोकप्रकटमपि व्यवहारालोकमपसारयता यदि परमुद्योतकरत्वमेवोद्योत करेण उद्योतितमात्मनः। अथोच्यते नवासी भंग्या व्यभिचारमादर्शयत्यपि तु तस्य साधनस्य सम्यक्त्वमभ्युपगम्यैव तेन दोषेण परमपि कलडकयतीत्यत आह। अथ तदुपक्षेप (:) पुरुषत्वाद् भवांश्चौर इत्येनमभ्युपगच्छत्येव तदाप्यसौ तत्साधन उत्तराप्रतिपत्यैव निग्रहार्हो नापरत्र' वादिनिस्वदोषस्य चौरत्वस्योपक्षेपात् । निग्रहार्ह इति वर्त्तते । इदमेवोपोबलयति । तत्साधननिर्दोषतायां(18b8) हचंगीकृतायामिति शेषः। तस्योपक्षेप स्याभ्युपगम
एव यः स एवोत्तराप्रतिपत्तिरिति तावतैवोत्तराप्रतिपत्तिमात्रेणैवापरत्र दोषप्रसञ्ज. 79b नात् । पूर्वसाधननिग्रहस्य सतः प्रतिवादिनः आपन्नः प्राप्तो निग्रहो येन तस्येति
चेति विग्रहः। परदोषोपक्षेपस्य मतानुज्ञालक्षणस्यानपेक्षणीयत्वात्पराजितपराजयाभावादिति भावः॥०॥
निग्रहप्राप्तस्यानिग्रहः पर्यनुयोज्योपेक्षणं (18b9) पर्यनुयोज्यो नाम निग्रहप्राप्तस्यो (पे)क्षणन्निग्रहप्राप्तोसीत्यनभिधानं। क(:) पुनरिदं पर्यनुयोज्योपेक्षणं निग्रहस्थानं चोदयति। न तावत् पर्यनुयोज्य इति युक्तं । असम्भवात् । न हयस्ति सम्भवो यत् परदोषप्रतिपादनार्थमात्मनो दोषवत्वमसावभ्युपेति। निग्रहप्राप्तः सन्न
परपक्षे दोषप्रसंगो--इति न्या० भा० पाठः।.