________________
२-न्यायमतखंडनम्
विधानमप्रतीतप्रत्ययतया न लक्षणात साधनस्यासाधनाङ्गवचनमिति निग्रहस्थानमिति ।
[ १२७
स्वपक्षदोषाभ्युपगमात्परपक्षे तं दोषं प्रसज्जाय मतानुज्ञा 3 (न्या० ५।२।२० ) ( । ) यः परेण चोदितं दोषमनुद्धृत्य भवतोप्ययं दोष इति ब्रवीति यथा भवांश्चौरः पुरुषत्वादिति उक्ते स तं प्रति ब्रूयाद्भवापीति । स स्वपक्षे दोषाभ्युपगमात्पर* पक्षे तं दोषं प्रसञ्जयन् परमतमनुजानातीति मतानुज्ञा निग्रहस्थानमिति (1) अत्रापि यदि पुरुषत्वाच्चौरो भवानपि स्यान्न च भवता नैवमिष्टस्तस्मान्नायं चौर्यहे 'तुरिति यद्ययमभिप्रायः । तदा न क दोषोनभिमते तदात्मनि चौरत्त्वेन हेतुदर्शने दूषणात् ।
स्वपक्षदोषाभ्युपगमात् परपक्षदोषप्रसङगो मतानुज्ञा ( न्या० सू० ५।२।२० ) (18b3) दोषपरिहारे वक्तव्ये दोषस्यापरिज्ञानात् परमतमनुजानात्यतो निगृहयते । तदाह परेण वादिना चोदितं पर्यनुयुक्तं दोषमनुवृत्या परिहृत्य भवतोप्ययं दोष इति ब्रवीति । यथा भवांश्चौरः पुरुषत्वा (16b4) च्छवरादि (वदि) त्युक्ते वादिना स प्रतिवादी तं वादिनं प्रतिब्रूयात् । भवानपि चौर इति सोपि शब्दप्रयोगादात्मनश्चौर' त्वमभ्युपगम्य परपक्षे तन्दोषमासञ्जयन्नापादयत्यपरेण वादिना यन्मतं प्रतिवादिनश्चौरत्त्वं तदनुजानाति । तथा हि ते न मुक्त संस [ ? श] यन्तावदात्मन' श्चौरत्त्वं प्रतिपत्तुमन्यथा नापि तमभिदध्यात् । वादिनि तु तदस्तिनास्तीति चिन्त्यमतो मतानुज्ञा निग्रहस्थानं । इदमाचार्यो निराकरोति । अत्रापि (18b5) यद्ययमभिप्राय उत्तरवादिनः पुरुषत्वाच्चौरो भवानपि स्यादहमिव । न च भवतात्मैवं चौरत्वेनेष्टस्तन्नायं पुरुषत्वादिति चौर्ये साध्ये हेतुरचौंरेपि भव' ति विपक्षभूते वृत्तेरनैकान्तिकदोषदुष्टत्वादिति । तदस्मिन्प्रतिवादिनोऽभिप्राये न कश्चित्तस्य दोषो मतानुज्ञालक्षणोऽन्यो वा । कस्मादनभिमते चौरत्वे न रूपेण तस्य वादिन आत्मनि विपक्षभूते हेतोः सत्वप्रदर्शनेन प्रकारेण दूषणात् । विदग्धभङ्गाव्यभिचारोद्भावनादिति यावत् । औद्योतकरं * चोद्यमाशङ्कते' 79a प्रसङ्गमन्तरेण भवानपि स्यादित्येवमाञ्जसेनैव मृजुनैव क्रमेण किन्न व्यभिचारितो हेतुस्त्वय्यपि अचौरे वर्त्तते पुरुषत्वमतोऽनैकान्तिकत्वमिति । तस्माद्यत' एवासावकौटिल्ये कर्तव्ये कौटिल्यमाचरति तत एव निगृहयत इति ।
9 'निग्रहस्थानप्राप्तस्यानिग्रहः -- इति न्या० भा० पाठः । * न्यायवार्त्तिके ५।२।२१ ( पृष्ठ ५५९ )