________________
१२६]
वादन्यायः
हेत्वाभासान्तर्भावः । असमर्थितसाधनाभिधान एवमुक्तमनभिधानान्याभिधान योरपि पराजय एवेत्युक्तमभ्युपगम्य वादमसाधनाङ्गवचनात् । एतेनाधिकस्य पुनरुक्तस्य च प्रतिज्ञादेवचनस्य च निग्रहस्थानत्वं व्याख्यातं तदपि हि प्रतिपादितार्थविपर्ययत्वात्साधनसामर्थ्य
स्वपक्षो नास्ति विवादस्तहि कथमिति वक्तव्यं । परपक्षप्रतिषेधार्थम्वैतण्डिकः प्रवर्तत इति चेत् । परपक्षप्रतिषेध एव तहर्यस्य' स्वपक्षस्थापनेति वितण्डालक्षणं विशीर्यते। तथा हि यो येनाभ्युपगतः स तस्य स्वपक्षः। परपक्षप्रतिषेधश्च तेनाभ्युपगतः स्वपक्षतां नातिवर्तत इति । यदा तहर्युपगम्य वादं प्रतिज्ञामात्रेण विफलतया
परिषच्छारद्येन व्याकुलीकृतत्त्वादित्यर्थः। न किञ्चित् साधनं तदायासं वा वक्ति। 78a अन्यद्वा किञ्चित् प्रलपति । साधनतदाभासव्यतिरिक्तं काको विरूपं विरौति
नूनमयं मे गेहे विपदं सूचयति तदलमनेन विवादेन । यामि तावद् गेहे किन्नु मे पितुमरणमन्यद्वा वर्त्तत इत्यादि । तथा कथं हेत्वाभासान्तर्भावः। साधनाभावाद्धत्वाभासासम्भवं मन्यते। उत्तराप्रतिपत्तिरपि नास्त्येव पूर्वपक्षवादित्वादित्यभिप्रायः। तदनेन द्वयन्नातिपतती त्येतद्विघटयितुमिच्छति परः। आचार्य आह। असमर्थितसाघनाभिधान एवमुक्तं द्वयं नातिपततीति प्रोक्तसाधन एतदुक्तमिति यावत्। अप्रोक्ते तु कथं प्रतिपत्त व्यमित्याह । अनभिधानान्यभिधानयोरपि सतोः पराजयः एवेत्युक्तं प्रकरणावतार एव। तदेव स्मरयति । अभ्युपगम्यवादमसाधनाङगवचनादिति । तथाहि तत्र व्याख्यातं। साधनाङगस्यानुच्चारणं। साधनाङगाद्वा यदन्यस्याभिधानं तत्सर्वमसाधनाङगवचनमिति। एतेनेत्यन्याभिधानेन पराजयवचने नाधिकस्य पुनरुक्तस्य च प्रतिज्ञादेर्वचनस्य च निग्रहस्थानत्वं व्याख्यातं । कथमित्याह। तदपि हीत्यादि। अनेनैतदाह । यद्युक्तियुक्तमक्षपादेन किञ्चि निग्रहस्थानमुक्तन्तदस्माभिरसाधनाङगवचनपदेनैव संगृहीतमिति यद्येवं प्रतिज्ञादेवचनस्य चेति किमर्थयक्तन्नहि प्रतिज्ञोपनयनिगमनानां वचनन्निग्रहस्थानमक्षपादेनोक्तं। प्रत्युत तदवचनमेव निग्रहस्थानतया। यदिष्टं हीनमन्यतमेनाप्यवयवेन न्यून (न्या० सू० ५।२।१२)मिति । एवं तहि दृष्टान्तार्थमेतद्यथा तस्याप्रतीत
प्रत्यायनशक्तिविकलत्वादसाधनाङगवचनपदेनाभिधानं। तथाधिकपुनर्वचनयो78b रपीति । तत.एव च द्वितीयश्चकार इव शब्दार्थे वर्तते । अन्यथा पुनरुक्तस्य चेत्ययं
बोध्यर्थः स्यात्। केचित्तूत्तरञ्चकारन पठन्ति । तैः पुनरुक्तव्याख्यानमेव प्रतिज्ञादेर्वचनस्य चेत्येतद् व्याख्येयं । एवमपि न युक्तमक्षपादेनैवम्विधस्य पुनरुक्तस्यानिष्टत्वान्नास्ति दोषः। पूर्वतुल्यधर्मतयाऽस्यापि पुनरुक्तेऽन्तर्भावितत्वात् ॥०॥