SearchBrowseAboutContactDonate
Page Preview
Page 142
Loading...
Download File
Download File
Page Text
________________ २-न्यायमतखंडनम् [१२५ अविरुद्धाभ्युपगमयोरनभ्युपगमयोर्वा विरोधाभावात् । तत्रावश्यमेकस्य प्राग्वचनप्रवृत्तियुगपत्प्रवृत्तौ परस्परवचनग्रहणावधारिणोन्तराणामसम्भ'वेन प्रवृत्तिवैफल्यात् । स्वस्थात्मनामप्रवृत्तेः () तेन च स्वोपगमोपन्यासेऽवश्यं साधनं वक्तव्यमन्यथा परेषामप्रतिपत्तेः। अपरेण च तत्सत्यपि दूषणं उभयो रसम्यक्प्रतिपत्तौ हेत्वाभासप्रतिभयोः प्रसङ्ग इति । सर्वो न्यायप्रवृत्तः पूर्वोत्तरपक्षोपन्यासेऽयं नातिपतति । एतेनैव वितण्डा प्रत्युक्ताऽभ्युपगमाभावे विवादाभावात् । यदा त_भ्युपगम्य 18b वादं विफलतया न किञ्चिद्वक्ति, अन्यद्वा यत्किञ्चित्प्रलपति तदा कथं तथा न विद्यते विरुद्धाविरुद्धयोरभ्युपगमौ ययोः पुरुषयोस्तावभ्युपगमौ। तयोविवादाभावात् । तत्रैतस्मिन्व्यवस्थिते न्याय निर्धारणे वा तत्र शब्दः । एकस्य वादिनः प्रतिवादिनोवश्यं प्राग्वचनप्रवृत्तिः। यौगपद्येन किन्न ब्रूत इत्याह । युगपत्प्रवृत्तौ स्वस्थात्मना मप्रवृत्तेरिति सम्बन्धः । एतदेव कुत इत्याह। परस्पर वचन श्रवणावधारणोत्तराणामसम्भवेन करणभूतेन प्रवृत्तिवैफल्यात्। यदि हि परस्परवच'नस्यासङकरेण श्रवणम्भवेत्ततस्तदर्थमवधारयत्युत्तरञ्च । युगपत्प्रवृत्तौ च दिगम्बरपाठकलकल इव सर्वमेतन्न संभवति तस्मादवश्यमेकस्य प्राग्वचन प्रवृत्तिः। अतस्तेन च स्वस्थात्मना पूर्वपक्षवादिनाऽनित्यं शब्दं साधयामीत्यादिना स्वोपगमोपन्यासे कृते सत्यवश्यं साधनं. वक्तव्यं । अन्यथेति हेत्वनभिधा ने परेसां[?षां] साक्षिप्रभृतीनामप्रतिपत्तेः। अपरेण चेत्युत्तरपक्ष- 77b वादिना तत्सम्बन्धिवादिप्रोक्तसाधनसम्बन्धि दूषणं वक्तव्यमिति वर्तते (1) तस्मादुभयोर्वाविप्र (ति)वादिनोरसम्यक् प्रवृत्तौ सत्यां हेत्वाभासाप्रतिभयोः संग्रह इति सर्वो न्यायप्रवृत्तः पूर्वोत्तरपक्षोपन्यासो द्वयं हेत्वाभासाप्रतिभाञ्च नातिपतति। ननु च यदि न्यायः प्रवृत्तः कथन्तत्रास्य द्वयस्याधिकारः। कथञ्चैकत्र धर्मिणि विरुद्धावुपन्यासौ न्यायप्रवृत्ताववश्यं हि तत्रैकेनोपन्यासेन न्यायं प्रवृत्तेन भाव्यं । अन्यथा धर्मीद्वयात्मको भवेत् । नाभिप्रायापरिज्ञानात् । नेदम्भवता न्यायप्रवृत्तत्वमाचार्येण विवक्षितं पर्यज्ञायि । न्यायप्रवृत्तौ (?) हि पूर्वोत्तरपक्षोपन्यासस्य युगपत्प्रवृत्यभावेन जननी व्यभिचारवेदनाद्यभावेन चाभिप्रेतं। एतेनैकत्र हयधिकरणे विरुद्धाभ्युपगमयोविवादः स्यादित्यादिना वितण्डा प्रत्युक्ता। कथं प्रत्युक्तेत्याह। अभ्युपगमाभावे विवादाभावात्। इदमुक्तम्भवति। स्वपक्षस्थापना हीनो वाक्यसमूहो वितण्डेत्युच्यते (न्या० सू० ११२।३ )। यदि चवैतण्डिकस्य
SR No.002368
Book TitleVadnyaya
Original Sutra AuthorN/A
AuthorShantrakshit Acharya
PublisherMahabodhi Sabha
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy