________________
१२४ ]
वादन्यायः स्य भावे तस्य स्वसाधनासामर्थ्यपरिच्छेदादेव विक्षेपः स्यात् । तथा चेदमर्थान्तरगमन एवान्तर्भवेत् । असमर्थसाधनाभिधानात् । हेत्वाभासेषु वा प्रकृतसाधनासम्बद्धप्रतिपत्तेश्च निरर्थकापार्थकाभ्याश्च न भिद्यते । अतिप्रसङ्गश्चैवं प्रकाराणामसम्बद्धसाधनवाक्यम्प्रतिपत्तिप्रभेदानां पृथग् निग्रहस्थानव्यवस्थापने प्रोक्तः। अथोत्तरवाद्यवं विक्षिपेत्तस्यापि साधनानन्तरमुत्तरे प्रतिपत्तव्ये तदप्रति पत्त्या विक्षेपप्रतिपत्तिः प्रतिभायामर्थान्तरे वान्तर्भवति ।
ननु नावश्यं साधनदूषणाभ्यामेव सर्वस्य प्रतिपत्तियेन सर्वा वादिप्रतिवादिनोर्न सम्यक् प्रतिपत्तेर्हेत्वाभासेर्थे प्रतिभायां वान्तर्भावात् । भवति हि अनिवद्धेनापि कथाप्रपञ्चेन विवाद इति । न (1) असम्भवात् एकत्र पूर्वकरणे विरुद्धाभ्युपगमयोविवादः स्यात् ।
स्वसाधनासामर्थ्यपरिच्छेदादेव विक्षेप: स्यात्ततः किमित्याह । तथा चेदं विक्षेपसज्ञितन्निग्रहस्थानमर्थान्तर एवान्तर्भवेत् । रूपसिद्धिनामादिव्याख्यानसमानस्वात् करणीयोपन्यास स्य। हेत्वाभासेष्वेवान्तर्भवेवित्यधिकृतं। कस्मादसमर्थञ्च तत्साधनञ्च तस्याभिधानात् । किञ्चेदं निरर्थकापार्थकाभ्यां सकाशान्न भिद्यते । कि कारणं प्रकृतञ्च तत्साधनञ्च तेनासम्बद्धा च सा प्रतिपत्तिश्च ततः साधनवाक्येन सहास्य दशदाडिमादिवचनस्येव जबगडादिवर्णक्रमस्येव च सम्बद्धानुपलम्भादित्यर्थः। किञ्चिन्मात्रभेदानिमित्तलेशेन पृथगुक्तमिति चेदाह। अति प्रसङगश्चेत्यादि । असम्बद्धासाधनवाक्येन प्रतिपत्तिर्येषां' प्रतिभेदानान्तेऽसम्बद्धसाधनवाक्यप्रतिपत्तयः। ते च ते प्रभेदाश्च तेषामिति कार्य एवन्तावत् पूर्वपक्षवादिसम्बन्धेन विक्षेपस्य पृथगनभिधान मुक्तं ॥ अधुना प्रतिवादिसम्बन्धेनाप्याह ।
अथोत्तरपक्षवाद्येवं बलासकलात्मकण्ठं क्षिणोतीत्यादिना प्रक्रमेण कथां विक्षिपेत् 77a
तदानीन्तस्याप्युत्तरपक्षवादिनः साधनानन्तरमुत्तरे प्रतिपत्तव्ये सति तदप्रतिपत्त्या तस्योत्तरस्यानभिधानेन विक्षेपप्रतिपत्तिर्यासाप्रतिभायामर्थान्तरे वान्तर्भवतीति परस्तु यथोक्तमन्तर्भावमसहमानश्चोदयति ।
ननु नावश्यमिति तदेव द्रढयति (1) भवति हयनिबद्धनापि साधनवाक्येनासम्बद्धे नापि कथाप्रबन्धेन परप्रतिभाहरणायान्तशो जननीव्यभिचारचोदनेनापि विवाद इति । आचार्य आह । नासम्भवादेवंविधस्य विवादस्य। यस्मादेकत्र शब्दादावधिकरणे नित्यत्वानित्यत्वादिप्रतिज्ञानाविरुद्धावभ्युपगमौ ययोर्वाविप्रति वादिनोस्तयोविवादः स्यात्। कुत एतदित्याह। अविरुद्धावभ्युपग मौ ययोस्तो