SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ २-न्यायमतखंडनम् [ १२३ उत्तरस्याप्रतिपत्तिरप्रतिभा (न्या०५।२।१८)। परपक्षप्रतिषेधे उत्तरं यदा न प्रतिपद्येत तदा निगृहीतो वक्तव्यः साधनवचनान्तरम्प्रतिविषयमुत्तरे व्यर्थ, तदज्ञानक्रमघोषणश्लोकपाठादिना कालङ्गमयन् कर्त्तव्याप्रतिपत्त्या निग्रहाहं इति न्याय्यं निग्रहस्थानमिति ॥ . कार्यव्यासगात्कथाविच्छेदो विक्षेप: (न्या० ५।२।१९)। यत्किञ्चिकर्त्तव्यं व्यासज्य कथां विच्छिनत्ति । इदं मे करणीयं परिहीयते । अस्मिअवसिते पश्चात्करिष्यामि । प्रतिश्याय क° लात्मञ्च (?) क्षिणोत्येवमादिना 18a कथां विच्छिनत्ति। स विक्षेपो नाम निग्रहस्थानमेकमेकतरनिग्रहान्तायां कथायां स्वयमेव कथान्तं प्रतिपद्यत इति । इदमपि यदि पूर्वपक्षवादी कुर्यात् । व्याजोपक्षेपमात्रेण न पुनर्भूतस्य तथाविधकथोपरोधिनः कार्य दीनामभिधानप्रसङगात्। अतो व्यर्थः प्रपञ्चो महामुनिनाक्रियत' ॥०॥ परपक्षप्रतिषेधे कर्तव्ये उत्तरं दूषणं यदा न प्रतिपद्यते न वेत्ति नाभिदधाति तदा निगृहीतो वेदितव्य इतीयान् परग्रन्थः। साध्वेतन्निग्रहस्थानं। अतएवास्माभिरपीदमदोषोद्भावनमित्यत्रोक्तमित्येतत् मत्वाऽभ्यनुजानाति। साधनेत्यादि। साधन वचनानन्तरं प्रतिवादिना दूषणम्वक्तव्यं । स यदा सर्वं तदकृत्वा सानुक्रमानुभाषणेन श्लोकपाठेन सभासम्वर्णनेनान्येन कालन्नयति तदासौ व्यर्थ निष्प्रयोजन कालङगमयन्कर्त्तव्यस्य दूषणाभिधानस्य' प्रतिपत्त्याऽननुष्ठानेन निगृहचते। व्यर्थस्येदं क्रियायाः कालस्य विशेषणं॥०॥ कार्यव्यासङगः कर्णीयोपन्यासः कथाविच्छेदः कथानिवृत्तिः। यथा जीर्णकला मे बाधते। सम्प्रति वक्तुं न शक्नोमि पश्चात् कथयिष्यामीति एवमादिना प्रकारेण कथामुद्ग्राहणे काचिच्छिनत्तिः। निग्रहस्थाने' कारणमाह । एकतरस्य वादिनः प्रतिवादिनो वाऽसाधनाङगवचनेनादोषोद्भावनेन च निगृहणन्ती निग्रहपर्यवसाना कथा। तस्याञ्च तथाभूतायां प्रस्तुता यां स स्वयमेव कथांतं कथा पर्यवसानं प्रतिपद्यत इति निग्रहस्थानमेतत् । अत्राचार्योबूत (1) इदमपि कार्यव्यासजनं यदि तावत् पूर्वपक्षवादी कुर्यात्' साधनाभिधानशक्तिविकलत्वाद् व्याजोपक्षेपमात्रेण येन केनचिच्छलेनेत्यर्थः। न पुनर्भूतस्य तथाविधकथोपरोधिनः कार्यस्य भावे सति कर्यादिति वर्तते। तथा विधामुग्राहणिकारूपाङकथामुपरोक्षु शीलं यस्य कार्यस्याजीर्णकला कुक्षिशूलगेहु (?)दाहाद्यैस्तत्तथा। यदि सद्भावेनैव तस्य तस्याम्वेलायां कुक्षिगलशलगेह (?)दा हादयो भवन्ति तथा सति नै निग्रहस्थानमित्यर्थः। यदा पुनर्व्याजमात्रेणैव करोति तदा तस्य पूर्वपक्षवादिनः 76b
SR No.002368
Book TitleVadnyaya
Original Sutra AuthorN/A
AuthorShantrakshit Acharya
PublisherMahabodhi Sabha
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy