________________
वादन्यायः
१२२]
अस्ति विषयोऽप्रतिभाया इति चेत् । एवन्तयननुभाषणं निविषयमज्ञानेनाक्षेपात्। न हि विषयं सम्यक् प्रतिपद्यमानः कश्चिन्नानुभाषेतेति नाननुभाषणं पृथग्वाच्यमुत्तराज्ञानस्य चाक्षेपात् । विषयाज्ञानेनोत्तराज्ञानमप्याक्षिप्तमेव । न हि विषयमजाननत्तरञानातीति नैवाप्रतिभाया विषयोस्ति । ज्ञातेपि विषये पुनरुत्तराज्ञानमप्रतिभाया विषय इति चेत् । एवन्तर्हि विषयोत्तराज्ञानयोरपि प्रभेदान्निग्रहस्थानान्तरालवा च्यानि । यथाऽज्ञानस्य विषयो ज्ञानमुत्तराज्ञानमिति प्रभेदादसत्यपि गुणातिशये निग्रहस्थानान्तरव्यवस्था क्रियते । तथाऽज्ञानयोरपि सर्वा क्रम ( ? )ज्ञानमित्यादिप्रभेदान्निग्रहस्थानान्तराणि किन्नोच्यन्ते । न चोभयस्याप्यज्ञानस्य संग्रहवचने - दोषो गुणस्तु स्यादिति संग्रहवचनं न्याय्यं । तस्मादननुभाषणाज्ञानयोरप्रतिभाविषयत्त्वान्न पृथग्वचनं। अपि च न पूर्वोत्तरपक्षवादिनो हेत्वाभासाप्रतिभाभ्यामन्यनिग्रहस्थानं न्याय ( ? य्य ) मस्ति । तदुभयवचनेनैव सर्वमुक्तमिति । तदुभयाक्षिप्तेषु प्रभेदेषु गुणातिशयमन्तरेण वचनादेऽतिप्रसङ्ग(त् )व्यर्थः प्रपञ्च इति ॥
इदमुक्तम्भवति द्विधोत्तराज्ञानविषयाज्ञानसहचरञ्च विषयज्ञानसहचरञ्च । तत्राद्यस्य विषयाज्ञाने नाक्षेपेऽप्युत्तरमनाक्षिप्तमेव ततो द्वितीयापेक्षयाप्रतिभायाः पृथगुपादानमिति । अनवस्थैव निग्रहस्थानानां प्रसज्यत इत्याह । एवन्तीत्यादि। यथेत्याद्यस्यैव विभागः । तथा ज्ञानयोरपीति विषयोत्तराज्ञानयोरपि। सर्वस्योत्तरस्य विषयस्य चाज्ञानं। आदिग्रहणेन द्वित्रिचतुर्भागाद्यवरोधः । विषयोत्तराज्ञानयोः सङग्रहवचने दोष इति चेदाह । न चेति। यथा न दोषस्तथागुणोपि नास्तीति चेदाह । गुणश्च लाघवसंज्ञः स्यादिति संग्रहवचनं न्याय्यं । अप्रतिभाविषयत्वान्न पृथग्वचनं। अप्रतिभावचनेनैवानयोः सङग्रह इत्यर्थः। न केवलमनयोरेवापृथग्वचनं । न्याय्यमपि त्वन्येषामपीत्याह । अपि चेत्यादि। तदुभयवचनेनैवेति। हेत्वाभासाप्रतिभयोरेव वचनेन सर्वप्रतिज्ञाहान्यननुभाषणाद्युक्तं। नहि कश्चिद्धचन्यस्साधनवादी प्रतिपक्षधर्ममभ्युनुजानाति प्रतिज्ञाम्वा प्रतिज्ञासाध
नायोपादत्त इत्यादि वाच्यं । तदा न कञ्चि (द्) दूषणं व्यक्तमेव यन्नानुभाषते। 76a कथां विक्षिपति । परम तञ्चानुजानातीदि (?ति) वक्तव्यं । तदुभयाक्षेपेपि प्रपञ्चो
गुणवानतस्तदवचनादरोमुनेरिति चेदाह। तदुभयाक्षिप्तेषु प्रभेदेषु गुणातिशयम'न्तरेण । अनुपलभ्यमानत्वाद् गुणस्य प्रपञ्चवचनादरेऽतिप्रसङगात् । कक्षपिट्टिता