________________
२-न्यायमतखंडनम्
[१२१ वैयर्थ्यात् । तथाऽज्ञानेप्युत्तराप्रतिपत्त्यैव निग्रहस्थानत्वमजानानः कथमुत्तरमुत्तरविषयञ्च ब्रूयादिति। विषयाज्ञानमुत्तराज्ञानञ्च निग्रहस्था'. नंमन्येथा अतिप्रतिभासानिर्विषयत्त्वात्। अनवधारितार्थो हि नानुभाषते (1) अननुभाषमाणो विषयमुपप्र(द)ोत्तरं प्रतिपत्तुं न शक्नुयादित्युत्तरं न प्रतिपद्यत । ज्ञातोत्तरतद्विषयस्योत्तराप्रतिपत्तेरसम्भवात् । उभयमेतदुत्तराप्रतिपत्तेः कारणमिति तदभावे प्रतिपत्तिर्भवत्येवेति तयोः पृथग्वचनेऽप्रतिभायाः को विषय इति वक्तव्यं निविषयत्त्वादवाच्यत्त्वात् च 17b स्यात् । नोत्तरज्ञानमज्ञानं किन्तर्हि विषयज्ञानं ज्ञाते हि विषये उत्तराज्ञानात्। तन्न प्रतिपद्यतेति ।
अनवधारितार्थो हीत्यादि । अनवधारि तोर्थपूर्वपक्षस्योत्तरस्य च येन प्रतिवादिना 75a स नानु भाषेत् । अननुभाष्यमाणश्चासौ विषयमप्रदोत्तरं प्रतिपत्तुन्न शक्नुयादित्यत उतरन्न प्रतिपद्येत । न जानीयान्नाभिदध्याद्वा। कस्मादुत्तरविषययोरज्ञाने सत्युत्तराप्रतिपत्तिरित्यत आह ज्ञानोत्तरतद्विषयस्योत्तराप्रतिपत्तेरसंभवादिति। ज्ञाता उत्तरतद्विषयो येनेति वृत्तः। तस्मादुभयमेतदुत्तराज्ञानं। विषयाज्ञानञ्च प्रतिपत्तेरप्रतिभापरपर्यायायाः कारणं। ननु चोत्तराज्ञानमेवाप्रतिभा तत्कथं सैवात्मनः कारणत्वेनोपदिश्यते। नोत्तरानभिधानलक्षणाया अप्रतिभासाया विवक्षितत्वात् । तदभाव इति तयोरुत्तरविषयाज्ञानयोरभा वे सति प्रतिपत्तिरभिधानमुत्तरस्य भवत्येव । इति तस्मात्तयोविषयाज्ञानोत्तरज्ञानयोरज्ञानसंज्ञितेन निग्रहस्थानेनाप्रतिभा निग्रहस्थानात् पृथक्वचने सत्यप्रतिभायाः को विषय इति वक्तव्यं । न चेद्विषयो भण्यते। तदा निविषयत्वादवाच्यव स्यादप्रतिभा। तयोरज्ञानानुभाषणयो': पृथग्वचन इत्यन्ये व्याचक्षते। अज्ञानाप्रतिभयोविषयभेदव्यवस्थापनाय परः प्राह। नोत्तरज्ञानमज्ञानमुच्यते । यतोऽप्रतिभा निविषयत्वादवा'च्यम्भवेत् । किन्तहर्यज्ञानमित्याह । विषयाज्ञानं। एवमपि कथमप्रतिभा विषयबती भवतीत्याह । ज्ञाते विषये सत्युत्तरकालमुत्तराज्ञानात्। प्रतिवादी त दुतरन्न प्रतिपद्येत न ब्रूयात्। अतोऽस्ति विषयोऽप्रतिभायाः। अज्ञानाक्रान्तः। एवमप्यवाच्य त्वान्नमुच्यस इत्याह । एवन्तीति । अज्ञानेनानुभाषणस्याक्षेपमेव साधयति। 75b नहि विषयं सम्यक् प्रतिपद्यमानः कश्चित् सचेतनो नानुभाषतेति नानुभाषणम'ज्ञानात्पृथग्वाच्यं । अपिचैवमप्रतिभाप्यननुभाषणवदज्ञानात्पृथग्नवाच्येत्याह। उत्तराज्ञानस्य चाक्षेपादिति। इदं व्याचष्टे विषयेत्यादिना। ज्ञाते विषय इत्यादि परः।
१न्या० भा० पृ० २६२ ।