________________
बादन्यायः
१२०]
अविज्ञातमज्ञानं (न्याय ५।२।१७ ) । “विज्ञातं पर्षदा प्रतिवादिना यदविज्ञातं तदज्ञानं नाम निग्रहस्थानमर्थे खल्वविज्ञाते न तस्य प्रतिषेधं ब्रूयादिति । एतदप्यननुभाषणवदति तत्रैव गम्यत्त्वादवाच्यं । यथाऽननुभाषणेऽप्रदर्शितविषयत्वादुत्तरप्रतिपत्तिरशक्येति (1) अनुत्त(र)प्रतिपत्त्यैव निग्रहस्थानत्वमुत्तरविषयप्रदर्शनप्रसङ्ग मन्तरेणानुभाषणस्य
अविज्ञातञ्चाज्ञान (न्या० सू० ५।२।१७) मिति भावे निष्ठाविधानात् साधनवाक्यार्थापरिज्ञानं निग्रहस्थानं। तत एव भाष्ये टीकाकृतो विवृण्वन्ति वाक्यार्थविषयस्य विज्ञानस्यानुत्पत्तिरज्ञानमिति । अस्तु वा कर्मण्येव निष्ठाविधानं तथापि वाक्यार्थविषयज्ञानानुत्पत्या विशेषि तं वादिप्रयुक्तं वाक्यमेव प्रतिवादिनो निग्रहस्थान मिति न किञ्चिद्वचाहन्यते। अन्ये पुनर्विवरणर्थग्रहणं पश्यन्तः सूत्रेप्यर्थग्रहणं भ्रान्त्या पठन्ति । अविज्ञातार्थञ्चाज्ञानमिति सोऽन्येषां पाठः। विज्ञा
तार्थ साधनवाक्यं परिषदा तस्य प्रतिवादिना यदविज्ञातमनवबोधस्तदज्ञान74b मित्येवं भावपक्षेऽक्षरविन्यासः। कर्मपक्षे तु तस्येति नाध्याहर्तव्यमेकवाक्यतयैव
तु व्याख्यातं। विज्ञातं पर्षदेति किमर्थ पर्षदाप्यविज्ञाते वादिन एवाविज्ञातार्थ निग्रहस्थानं भवतीति ज्ञापनाय। निग्रहस्थानत्वे कारणमाह । अर्थे खल्व'विज्ञाते प्रतिबादी न तस्य प्रतिषेधं ब्रूयादिति । अपरे तूत्तरेण दूषणग्रन्थेन सहैतत् सम्बध्नन्ति तच्चायुक्तं भाष्यवार्तिकग्रन्थत्वादस्य। गम्यत्वमेव साधयति यथाऽननुभाषणेऽनुत्तरप्रतिपत्यैव निग्रहस्थानत्वं कथमुत्तराप्रतिपत्तिरित्याह। अप्रदर्शितविषयत्वात्प्रतिवादिनोत्तरप्रतिपत्तिरशक्येति कृत्वाप्रदर्शितो विषयो येनेति विज्ञेयं विशेषणसमासो वा। तथाहि दूषणस्य विषयख्यापनार्थमनुभाषते तञ्च परित्यज्य यद्यदेव वा दिनाऽनुद्ग्राहितमालजालमनुभाषते । तदानीमुत्तरविषयप्रदर्शनप्रसङगमन्तरेण तथाभूतस्यानुभाषणस्य वैयादशक्येतिवर्तते। अनुग्रहप्रतिपत्यैव निग्रहस्थानत्वमिति वा। दार्टान्तिकमुपसंहरति। तथा ज्ञानेऽप्युतराप्रतिपत्यैव निग्रहस्थानत्वमिति । यस्मादजानन् प्रतिवादिदूषणतद्विषयौ कथमुत्तरविषयञ्च ब्रूयात् । उत्तरविषयो दूष्यः। क्वचित्तु पाठः। कथमुत्तरमुत्तरविषयञ्चोतरमिति। अत्रैवं यदसम्बन्धिः। अजाननुत्तरविषयञ्च कथमुत्तरम्ब्यादिति। तस्माद्विषयाज्ञानमुतराज्ञानञ्च निग्रहस्थानमप्रतिभयव गम्यत्वात् । अवाच्यमिति वर्तते किं कारणमन्यथैवमनिष्प्रमाणे सत्यप्रतिभाया निविषयत्वात् । कथं निविषयत्वमित्याह।
१अविज्ञानं चाज्ञानम्--इति न्या० भा० पाठः।