SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ २-न्यायमतखंडनम् [११९ वा नाननुभाषणं। कश्चायं समयनियमस्त्रिरभिहितस्याननुभाषणमि ति। 17a यदि तावत्परप्रत्यायनार्था प्रवृत्तिः किन्त्रिरभिधोयेत। तथा तथा स ग्राहणी (यो) यथास्य प्रतिपत्तिभवति। अथ परोपता(प)नार्थी तदापि किं त्रिभिरभिधीयते । साक्षिणां करणे निवेद्य प्रतिवादी कष्टाप्रतीतद्रुतसंक्षिप्तादिभिरुपद्रोतव्यो यथोत्तरप्रतिपत्तिविमूढस्तूष्णीम्भवति । नहि परोपतापनक्रमे कश्चिन्न्यायो येन कष्टाप्रतीतप्रयोगद्रुतोच्चारिता निवार्यन्ते त्रिभिरभिधानं वा विधीयते । न च परोपतापाय सन्तः प्रवतन्ते शास्त्राणि वा प्रणीयन्ते इत्यदो वक्तव्यं तस्मात्तावद्वक्तव्यं यावदनेन (न) गृहीतं न त्रिभिरेव । अग्रहणसामर्थ्य प्रागेव वा परिच्छिन्नसामर्थ्येन परिहर्त्तव्यः पुनरनुप्रति बोध्येति [?ध्य इति ॥ नैव व्याहन्यते। यस्माद्विविधोत्तरा प्रतिपत्तिरुत्तराज्ञानरूपोत्तरानभिधानरूपा च । तस्माद्यत्किञ्चिदेतत् । अथ परोपतापनार्था तथापि किन्त्रिरभिधीयते। किन्तर्हि कार्यमित्याह। साक्षिणामुत्कोचोपसङक्रमं कर्णे निवेद्यायमत्रार्थो मया विवक्षित इत्युत्तरकालं प्रतिवाद्यनाथो वराकः कष्टाऽप्रतीतद्रुतसंक्षिप्तादिभिः शब्दैरिति शेषः। उपद्रोतव्यः। कस्मादर्भणाः। अप्रतीताः सिंहलभाषादिवदसं केतिकाः। द्रुताः शीघमुच्चारिताः। संक्षिप्ता सूत्रवाण्टादिवद्वर्तुलीकृतार्थाः। आदिग्रहणेन गोपितार्थानाङग्रहणं। यथा। सत्वादुर्वायुस्ते दिश्यायोतायाञ्चारात्यस्वन्त पक्षे नोलंवम्विज्ञायैःवेष्टातोयास्पृष्टेशः शमिति। यथा। संप्रति वादी उत्तरप्रतिपत्तौ विमूढ (:) तूष्णीं भवति । पर्षत्प्रतिवादिभ्यां त्रिरभिहितमविज्ञातमविज्ञातार्थ (न्या० सू० ५।२।९) मित्यत्र श्लिष्टकष्टादिशब्दप्रयोगस्य मुनिनानिवारितत्वात् नैवमन्यायं कतुं लभत इति चेदाह। नहि परोपतापक्रम इत्यादि 74a किञ्च न परोपतापनाय सन्तः प्रवर्तन्ते शास्त्राणि वा प्रणीयन्ते तैरित्युक्तं दुर्जनविप्रतिपत्य धिकरणे सतां सा[? शास्त्राप्रवृतरित्यत्र । यतश्च परानुपतापयित न सन्तः प्रवर्तन्ते तस्मात्तावद् वक्तव्यं यावदनेन न गृहीतं न त्रिरेव वक्तव्यमित्यधिकृतं । अथ वादिना शतधापुनः पुन रभिधाने प्रतिवाद्यतिजडत्वाद् गृहीतुं न शक्नोतीति निश्चितन्तदाऽग्रहणसामर्थ्य कथञ्चिनिश्चिते साधनप्रयोगात्प्रागेव परिहर्तव्यो नानेन सहोद्ग्राहयामीति परिच्छिंन[?च्छिन्न]मसामर्थ[?थ्यं] । ग्रहणेऽतिजाड्यापरनामकप्रतिवादिसम्बन्धियेन वादिना स तथा। कथं तथा परिहरनाशक्तः शंक्यत इत्याह। पराणन?न] साक्षिणःप्रबोध्य नायं शक्तो वाक्यार्थ बोध वस्तु त्वेवं व्यवस्थितमिति॥४॥
SR No.002368
Book TitleVadnyaya
Original Sutra AuthorN/A
AuthorShantrakshit Acharya
PublisherMahabodhi Sabha
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy