________________
.वादन्यायः
११८] ऽवश्यं विषयो दर्शनीयोऽन्यथा दूषणावृत्तेरिति ।
एवन्तर्हि नाऽननुभाषणं पृथनिग्रहस्थानंवाच्यं । (अ)प्रतिभया गतत्त्वात् । उत्तरस्य हि र (? अ-) प्रतिपत्तिरप्रतिभा ( न्या० ५।२।१८) (अ)प्रतिपत्तिरप्रतिभा, न चोत्तरविषयमप्रदर्शयन्नुत्तरं प्रतिपत्तुं समर्थः। न ह्यनाक्षिप्तानुत्तरप्रतिपत्तिकमननुभाषणं, तेनाननुभाषणस्य व्यापिकायामप्रतिभायां विहितं निग्रहस्थानत्त्वमननुभाषणं न-मेवाग(?)विधिविहितमिव सा स्नादिमत्त्वं बाहुल्येपि तस्मादप्रतिभैव निग्रहाधिकरणत्त्वेन
आचार्य आह। यदि भवद्भिरप्ये [? पी] दमेवेष्टमेवन्तहि नाननुभाषणम्पृथग्वाच्यं (16b9)। कस्मात् प्रतिभयागत्वात् । गतत्त्वमेव प्रतिपादयति। उत्तरस्य ह्यप्रतिपत्तेरप्रतिभा (न्या० सू० ५।२।१८)। ततः कथङगतमित्याह । न चोत्तरविषयमप्रदर्शयन प्रतिवाद्यत्तरं प्रतिपत्तं ज्ञातमभिधातं वा समर्थः।। किमिति न शक्त इत्याह। न हीत्यादि। चोत्तरप्रतिपत्तिरुत्तरा प्रतिपत्तिरित्यर्थः। सा नाक्षिप्ता येनाननुभाषणेन तत्तथा। प्रतिषेधद्वयाद्विध्यवसीय आक्षिप्तोत्तराप्रतिपत्तिकमेवेति। एतदुक्तम्भवति। यो हि नामोत्तरम्प्रतिपद्यतेऽतोवश्यं तद्विषयमप्यवेत्यस्येदं दूषणमिति परिज्ञानात् परिज्ञातविषयश्च कथं सचेतनो न तमनुभाषते। तस्माद्यत्राननुभाषणन्तत्राप्रतिभयाभाव्यमिति सा तस्य व्यापिका तरूरिवखदिरस्य तस्याश्च विहितं निग्रहस्थानत्वं व्याप्येऽननुभाषणे तदा क्षिपतीत्येतन्निगमनव्याजनाह। तेनेत्यादि । अत्रैव दष्टान्तं ब्रते गव्यपरामष्ट तभेदायां सामान्यभूतायाम्विहितमिव सा (?सा)स्नादिमत्त्वत्तद्वयाप्तबाहुलेयेऽपिलब्धमिति वर्त्तते। प्रयोगः पुनर्यदेकविधानसामर्थ्यादनुक्तमपि लभ्यते। ननुभूयःप्रेक्षापूर्वकारिणा विधातव्यं। तद्यथा गोजातौ शा (?सा)स्नादिमत्वविधानसाम
र्थ्यात् प्रतिलब्धं तहयेषु शा(?सा)स्नादिमत्वं। अप्रतिभानिग्रहस्थान त्वविधान
सामर्थ्यात् प्रतिबद्धश्चाननुभाषणनिग्रहस्थानत्वमिति व्यापकविरुद्धोपलब्धिः (1) 73b ननु च विषयं विषयश्च प्रपञ्चोत्तरं प्रतिपद्यमानोप्यति भयकम्पादिभिर्व्याकुलीकृत
चेताः प्रतिवादीनानुभाषते स विषयोऽननुभाषणस्याप्रतिभयानालीढस्तत्कथं सा तस्य व्यापिका यतोऽयं हेतुः सिद्धो भविष्यति नैव सम्भवात् । नहि विषयं विषयविषयञ्चोत्तरं प्रतिपद्यमानः कुतश्चिद्विभेति वेपते वा तदज्ञानकृतत्वाद् भयवेपथुस्वेदादीनां । अथ तथाभूतोऽपि भ यादिभिराकुलीक्रियते स तहर्यादावेव तथाभूतो वादमपि कर्तुम्नैव धावति । अपि च । यदि परं बाला एवैवं भूता भवन्ति। न च बालव्यवहारानधिकृत्य न्यायशास्त्राणि प्रणीयन्ते । यद्वैवमप्यप्रतिभायामन्तर्भावो