________________
२-न्यायमतखंडनम्
[११७ दोषभेदात् । तस्माद्यं पदार्थं दूषयति स एव तदूषणविषयस्तदा प्रदर्शनीयो नापरस्तु दूषणेऽपरोपदर्शनस्यासम्भवात् । तस्मिन्दूषिते पुनरन्योर्थोऽपरदोषविषय इत्ययमनुभाषणे दूषणे च न्याय: । सकृत्सर्वानुभाषणेपि दोषवचनकाले पुनर्विषयप्रदर्शनीय एवाप्रदर्शिते दोषस्य वक्तुमशक्यत्वात्। तथा च द्विरनुभाषणं कृतं स्यात् । तत्र प्रथम सर्वानुक्रमानुभाषणं निष्प्रयोजनं, दूषणवादिना दूषणे वक्तव्ये यन्न तत्रोपयुज्यते तस्याभिधानमदोषोद्भावनं द्विरुक्तिश्चेति । सकृत्सर्वानुभाषणं पराजयाधिकरणं वाच्यं । तथान्त्विति चेत् । स्यादेतदुक्तमेतदर्थान्तरं निग्रहस्थानमिति तत्र साधने यतः कुतश्चित्प्रसङ्गादिना नान्तरीयकाभिधानं वादिनोऽर्थान्तरगमनमेवेति । स निग्रहाहः। न कश्चित्तत्कथितक्रियमाणप्रसङ्गो न प्रसज्यते । नापि तत्तस्यानुभाषणीयं, न चेदमप्यस्माभिरनुज्ञायते सर्व प्राक् सकृद्वक्तव्यं पश्चादूषणमिति । किन्तु दूषयता
यावत् । एवमारचितादिप्रस्थानो द्विरुच्चारणप्रसङगम्प्रदर्शयति सकृदेवाप्रघुष्टो, न। सर्वानुभाषणेस्य प्रदर्शिते विषयदोषस्य वक्तुमशक्यत्वात् । केवलमिदं निःप्रयोजनपराजयाधिकरणं चेत्याह । दूषणवादिना दूषणे वक्तव्ये (16b6) सति यत्र सानुक्रमभाषणं तत्र परपक्षक्षोभेनोपयुज्यते तस्याभिधानमिदन्द्विरुक्तपदोद्भावनञ्चेत्येवं व्यत्याशेन (?सेन) पदविन्यासः कार्य इति तस्मात्सर्वानुक्रमभाषणम्पराजया धिकरणं वाच्यं अत्रेदानीमाक्षपादः सर्वमिदं दूषणमनभ्युपगमेनैव पूर्वपक्षस्यास्माभिः प्रतिव्यूढमिति मन्यमानोऽभ्यनुजानाति । तथास्त्वि' (16b7) ति। स्यादेतदित्येतदेव व्याचष्टे । यतः कुतश्चिदि (16b7)ति साधनार्थविवरणस्य व्याजेन प्रतिज्ञादिष्वर्थविशेषणपरम्परोपक्षेपेण चाप्रसङगात् अनंतरीयकाभिधानं ( 16b7) रूपसिद्धिनामादिव्याख्यानकल्पत्त्वाद्वादिनोऽर्थान्तरगमनमेवेति स तेन निग्रहाहः। प्रासङगिकं ब्रुवाणः किमिति निगृहयत इति चेदाह । नहि कश्चित् क्वचित् क्रियमाणप्रसङगो न प्रयुज्यते । यथोक्तम्प्राक् नैरात्म्यवादिनः। तत्साधने नृत्यगीतादेरपि प्रसङग इति । नापि तद्यद्वादि'ना प्रसङगत्वेन आहितं । तस्य प्रतिवादिनो ऽनुभाषणीय (16b8)। अनुपयुज्यमाण[?न] त्वन्नैवानुभाषणमर्हतीत्यर्थः । तदेतेन यत्पूर्वमुक्तं यदि नाम वादी स्वसाधनार्थविवरणव्याजेने (15bro)त्यादि तदभ्यनुज्ञातं । संप्रति यदुक्सं तत्रापि न सव्वं क्रमेणोच्चारयितव्यं । पश्चाद् दूषणम्वाच्यं द्विरुच्चारणप्रसङगादिति तदनुजानाति। न चेदमप्यस्माभिरित्या(16b8)विना।
73a