________________
वावन्यायः
११६] त् । तच्च सवै यदा नानुवक्तुं शक्नुयात् कस्तस्य विवादाश्रयाथमत्रोत्तरवचने
सामर्थ्य विघातो येन वादिवचनानुभाषणन्निग्रहस्थानमुच्यते । तस्मान्न 16b सवों वादिकथामननुभाषमाणो11 नोत्तरेऽसमर्थः ।
___ यद्वचननान्तरीयका जिज्ञासितार्थसिद्धिर्यथापक्षधर्माता व्याप्तिप्रसाधनमात्रं । न तत्रापि प्रसङ्गान्तरोपक्षेपस्तदवश्यं साधनाङ्गविषयत्त्वाद् दूषणमेवोपदर्यत एव । तत्रापि न सर्व प्रागनुक्रमेणोच्चारयितव्यं । पश्चाद् दूषणं वाच्यं । विरुद्धोच्चारणप्रसङ्गात् । दूषणविषयोपदर्शनार्थेऽनुभाषणे वादिवचनानुक्रमघोषणं व्यर्थमिति न कार्यमेवदूषयतास्यादयं दोष इति नान्तरीयत्त्वात् । प्रतिदोषवचनं विषयोपदर्शनं क्रियत एव (1) नहि सर्वविषयोपदर्शनं कृत्वा युगपद्दोषः शक्यतेऽभिधातुं, प्रत्यर्थ
हमेतत्साधयामीत्युत्तरकालप्रमाणमारचयन्प्रतिज्ञादिष्वर्थविशेषणपरम्परयापरान -
र्थानुपक्षिप्य कथाम्विस्तारयेदिति। तच्चे (16ari)ति प्रतिज्ञादिविशेषणपरम्परया 72a यदप्रस्तुतमेव नाटकाख्यायिकाघोषणकल्पं वादिनोद्ग्रा हितं । तदा कस्तस्य विवा
दाश्रयश्चासावर्थमात्रश्चाक्षणिकत्वादिकन्तस्योत्तरवचने सामर्थ्यविघातो नैवेत्यर्थः । तस्मान्न वादिकथामननुभाषमाणः प्रति वाद्युत्तरवाद्येन (?) समर्थः। किन्तु यद्वचननान्तरीयिका जिज्ञासितार्थसिद्धिस्तदवश्यमुपदर्यत एवेति सम्बन्धः। कस्मात्साधनाङगविषयत्वाद् दूषणस्य। परोपनीते हि साधने दूषणम्प्रवर्तत इति सम्बन्ध : किन्नान्तरीयिका पुजिज्ञासितार्थसिद्धिरित्याह । यथा पक्षधर्मता व्याप्तिप्रसाधनमात्रमि (16br)ति व्याप्तिः प्रसाध्यतेनेनेति व्याप्तिप्रसाधनं बाधकप्रमाणोपदर्शनं किमियमित्यपि साधनप्रयोगेऽर्थान्तरोपक्षेपः कर्तव्यो नेत्याह। न। तत्रापि प्रसङगान्तरो पक्षेप (16b1) इति नैरर्थक्यादिति मतिः(1) तावत् मात्रमुपदर्यते किं प्रागनुक्रमेण । पश्चात्तु दृष्यते नेत्याह । तत्रापि दूषणविषयोपदर्शनार्थेऽनुभाषणे न सवं यावदुपन्यस्तं वादिना तद्रूषणाभिधानात् । प्रागनुक्रमेणोच्चारयितव्यं । कस्मात् त्रिरुच्चारणप्रसङगात्। द्विरुच्चारणप्रसङगमेव प्रतिपादयितुमादिप्रस्थानमाचरति । दूषणेत्या (16b2)दिना । यदि वचनानुक्रमघोषणं न करोति निविषयमिदानीं दूषणम्प्रसक्तमित्याह । नान्तरीय कत्वा (दा6b3) दूषयता विषयोपदर्शनं क्रियत एव । कथम्प्रतिदोषवचनं दोषवचनं दोषवचनम्प्रति । यो यो दोषो भण्यते तस्य तस्य विषयः कथ्यत इत्यर्थः । इदमेवाह (1) अस्य वाद्युक्त
स्यायन्दोष इति । किम्पुनः कारणं सर्वप्रत्युच्चार्ययुगपढ्षणन्नोच्यत इति चेदाह। 72b नही (16b3) त्यादि । कुतः प्रत्यर्थं दोषभेदात् । विषयवद् भिद्यते दोष इति