________________
२-न्यायमतखंडनम्
[११५ दुत्तरेण गुणदोषवता मूढामूढत्त्वं गम्यत इति किमुच्चारितेन। अस्ति हि कश्चिदुत्तरेण समर्थो न प्रत्युच्चारणेनासौ तावता निग्रहमहेंदिति। नोत्तरविषयापरिज्ञानाद्यद्ययन्न प्रत्युञ्चारयति निविषयमुत्तरं प्रसज्येत । अथोत्तरं ब्रवीति कथं नोच्चारयति । तदिदं व्याहतमुच्यते नोच्चारयति उत्तरञ्च ब्रवीतीति । अप्रतिज्ञानाच्च न चेदं न प्रतिज्ञायते पूर्व सर्वमुच्चारयितव्यं पश्चादुत्तरमभिधातव्यमिति । अपितु यथा कथञ्चिदुत्तरं वाच्यमुत्तरञ्चाश्रयोऽभावेऽयुक्तमिति युक्तमप्रत्युञ्चारणन्निग्र(ह)स्था नमिति । यदि नाम वादी स्वसाधनार्थविवरणव्याजेन प्रसङ्गादपरं घोषयेद्विवादास्पदश्च जिज्ञासितमर्थमात्रमुक्त्वा प्रतिज्ञादिष्वर्थविशेषपरंपरयाऽपरानर्थानुपक्षिप्य कथां विस्तारये1 0
मपि साधनवादिना प्रत्यनुभाष्य परिहर्तव्यं । अतो द्वयोरपीदं निग्रहस्थानं । अत्र भारद्वाजोन्यक्षेणाक्षेपन्तावत्करोति उत्तरेणावसानात्परिज्ञानान्नेदन्निग्रहस्थानमिति चेदिति। इदम्वाक्यम्व्याचष्टे (1) स्वादेतदि(16a7)त्यादिना।नोत्तरविषयपरिज्ञानादिति स एव प्रतिविधत्ते । यद्ययमि (16a8)त्याद्यस्यैव विभागः । अप्रतिज्ञानाच्चेति स एव । उत्तरञ्चाश्रयाभावे परपक्षोपक्षेपाभावे सत्ययुक्तमिति युक्तमप्रत्युच्चारणे निग्रहस्थानमित्येतावान् परकीयो ग्रन्थः। अत्राचार्यो दूषणम्वक्तुमारभते। यदि नाम वादीस्वसाधनार्थस्य विवरणव्याजेन प्रसङगादपरापरं घोषयेत् । यथोदा- 71b हृतम्प्राक्तत्र करणभुवनानि बुद्धिसत्कारणपूर्वकाणीति प्रतिज्ञाशरीरादिव्याख्यानच्छद्मना सकलं वैशेषिकतन्त्र घोषयेदिति (16aro) तथा जिज्ञासितमर्थमात्रमुक्त्वा कथां विस्तारयेद्यदि नाम वादीति वर्तते। किङकृत्वा विस्तारयेदित्याह। प्रतिज्ञादिष्वर्थविशेषणपरम्परयाऽपरान् सिध्यनुपयोगिनोर्थानुपक्षिप्य (16bro)।' यथा निदर्शितं पूर्वन्नित्यः शब्दोऽनित्यः शब्द इति विवादे जैमिनीयः प्रमाणयति। द्वादशलक्षणेत्यादिना । व्याचष्टे च द्वादशलक्षणानि । यथा वाऽक्षपादा एवङकुर्वन्ति। किममी सर्वे संस्काराः क्षणिका नो वेति विवादे रूपत्वादिसामान्याश्रय (त्त्वा)त्तदाश्रयास्तद्विषयाश्च प्रत्यक्षादयः प्रत्ययाः स्वात्मलाभानन्त'रप्रध्वंसिनो न भवन्ति । समानानामसमानजातीयद्रव्यसंयोगविभागजनितशब्दकार्यशब्दाभिधेयत्वात्प्रागभा - वादिवदिति । ननु च प्रतिज्ञादीष्वित्यत्रादिशब्देन किं गृह्यते । न तावद्धेतूदाहरणे तन्मात्रमुक्त्वेति वचनात्। न चापरः कश्चित्प्रस्तुतोऽत्रेति (1) नैष दोषो यतो हेत्वादिमात्रमप्युक्त्वेति द्रष्ट व्यं । तेन हेत्वादीनामेवादिग्रहणेन आक्षेप इति केचित् । अपरे पुनराहुरस्थानमेवेदमाशङकितं । क्त्वाप्रत्ययनिर्देशेत्र । यस्मादयमत्रार्थो यत्र प्रतिवादिना जिज्ञासितमर्थमात्रमन्यविशेषणरहितमक्षणिकत्वादिकं तदुक्त्वा वाद्य
१५