Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha

View full book text
Previous | Next

Page 150
________________ २-न्यायमतखंडनम् [१३३ सा प्रकृतिः । यत्तद्धर्मान्तरं स विकार इति सेयं प्रकृतार्थविपर्ययादनियमात् कथां प्रसज्जयति । प्रतिज्ञातञ्चानेन नासदाविर्भवति' न सत्तिरोभवतीति सदसदतोश्च तिरोभावाविर्भावावन्तरेण न कस्यचित्प्रवृत्त्युपरमः प्रवृत्तिर्वेत्येवं प्रत्यवस्थिते यदि सत श्रात्महानमसतश्चात्मलाभ 'मभ्युपैत्यपसिद्धान्तो भवति । अथ नाभ्युपैति पक्षोऽस्य न सिध्यतीति । इहापि न कश्चिदनियमात्कथाप्रसङ्गः । यत्तेनोपगतन्नासदुत्पद्यते न सद्विनश्यतीति तस्य समर्थ ' नापदमुक्तमेकप्रकृतिकमिदं व्यक्तमनुपदर्शनादिति । तत्रैका प्रकृतिः सुखदुःखमोहस्तदविभक्तयो (1) प्रतिज्ञातं खल्वनेनेति (19b5) पूर्वोक्तं स्मर' यति । यद्येवङको दोष इत्याह । सदसतोरित्यादि । सतस्तिरोभावमेकान्तेन विनाशमन्तरेण न कस्यचिद्धर्मस्य प्रवृत्युपरमः सिध्यति । केन चिद्विरूपेणावस्थाने सति स तिरोहितोऽङ्गस्तस्यावस्थितस्यात्मभूतः परभूतो वा भवेत् । आत्मभूतत्वे तिरोहितादव्यतिरेकात् तिरोहितवदवस्थितस्याप्यनवस्थानं' अवस्थितवच्च तदव्यतिरेकतस्तिरोहितस्याप्यवस्थानमासं[? शं]क्यते । परभूतत्वेपि कथमनन्वयो न विनाशो न हन्यस्यावस्थानेऽन्यदवतिष्ठते । अन्यो वान्यस्यान्वयश्चैतन्यस्याऽपि घटान्वयप्रसङ्गात् । तथा नासत आविर्भावमुत्पादमन्तरेण कस्यचिद्धर्मस्य प्रवृत्तिर्वा सिध्यति । ननु च विद्यमानमेव धर्मान्तरमाविर्भाव्यते । ग्रहणविषयभावमापाद्यते । 82b न विद्यमानस्य क्रियास्त्युपादानमिति उपलब्धिर्वा विद्यमानत्वात् । न कारकजन्यत्वमित्येवं प्रत्यवस्थितः प्रतिषिद्धः साङ्ख्यः । क्वचित् सप्तम्यापद्यते । तत्र प्रत्य' वस्थिते प्रतिवादिनि सतीति व्याख्येयं । यदि स कापिलः सतो धर्मस्यात्महानमसतश्चात्मलाभमभ्युपैति तदानीमपसिद्धान्तो भवति। अभ्युपगमविरुद्धस्य प्रतिज्ञा' नादपसिद्धान्तसंज्ञकं निग्रहस्थानमस्य भवतीत्यर्थः । अथ सत आत्महानमसतश्चात्मलाभन्नाभ्युपैति । एवमप्येकप्रकृतिर्विकाराणामिति योयं पक्षः पूर्व्वप्रतिज्ञातः सोस्य न सिध्यति प्रकृतिविकारलक्षणस्यानवस्थितत्वात् । तथा हि तयोर्लक्षणं यस्यावस्थितस्येत्यादिनोक्तं । तस्य चायोगः । सदसतोश्चे ( 19b6 ) त्यादिना प्रतिपा ( 1 ) दत इत्येतावा'न्परग्रन्थः । अत्र सम्प्रत्याचार्यः प्रतिविधत्ते । इतोपि प्रतिविदध्मह इति शेषः । न कश्चिदनियमात् सिद्धान्तनीतिविरोधात् साङ्ख्यस्य प्रसङ्गः । तस्माद्यत्तेनोपगतं नासदुत्पद्यते न स ( त् ) तिरोभवतीति तस्य समर्थनादमुक्तं । किमुक्तमित्याह (1) एकप्रकृतिकमिदं व्यक्तमन्वयदर्शनादिति ( 19b8 ) । तत्रैकेत्येतदेव विभजति । तदविभक्तयोनिकमिदं

Loading...

Page Navigation
1 ... 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194