Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha

View full book text
Previous | Next

Page 146
________________ २-न्यायमतखंडनम् [१२९ हप्राप्तः स्वकौपीनं विवृणुयादिति । अत्रापि यदि साधनवादिनं निग्रहप्राप्तमुत्तरवादी न पर्यनुयुक्ते, अप्रतिभैवास्योत्तराप्रतिपत्तेरिति न पर्यनुयोग्योपे। ०क्षणं पृथग्निग्रहस्थानं न्यायचिन्तायां पुनर्नेद्वयोरेकस्यापि अत्र जयपराजयौ । साधनाभासेनार्थाप्रतिभासनात् भूतदोषाभिधानाच्च । अथ कश्चिद्दोषमुद्भावयति कश्चिन्न तदा निग्रहमहति । उत्तरप्रतिपत्तेः । अर्हत्येव सतो दोषस्यानुद्भावनादिति चेत् । न । सत इति कृत्त्वा सर्वे दोषा अवश्यवक्तव्या अवचनेन वा निग्रहः । एकेनापि तत्साधनविघातादे कसाधनवचनवत् । यथैकस्यार्थस्यानेकसाधनसद्भावे हमनेनोपेक्षितो निग्रहस्थानस्यापरिज्ञानात् । तस्मादयन्दोषवानिति नाप्युपेक्ष इति युक्तं । यस्मादसौं न जानात्येवायं निग्रहप्राप्त इति । तथा हयपरिज्ञानादेवासौ नानुयुक्ते निग्रहं प्राप्तोसीति । परिज्ञाने वा कथमुपेक्षेत। उपेक्षणे वा समचित्तः कथमेवं प्रकटयेदयं मयोपेक्षितः स दोषस्ततो मम पर्यनुयोज्योपेक्षणं निग्रहस्थानमिति । न चान्यस्तृतीयः कश्चिदिहानुषङगी तत्कनेदं चोदनीयमित्येतत् सर्वमाशडक्य पक्षिल स्वामी ब्रूते। एतच्च पर्यनुयोज्योपेक्षणं वक्तव्यञ्चोदनीयङकस्य पराजय इत्येवं वाविप्रतिवादिभ्यां प्रगुणा तदन्यैर्वा पर्यनुयुक्तया पृष्टया सत्या परिषदा' प्राश्निकर्वक्तव्यमित्यर्थः। च शब्दोऽवधारणार्थः । एतदेव (?एवमेव) अन्यानि निग्रहस्थानानि वादिप्र (ति)वादिभ्यामेवोद्भाव्यन्ते। एतत्पुनःप्राश्निकरेव। किं पुनः कारणं ताभ्यामेव नोच्यत इत्याह । न खलु निग्रहप्राप्तः स्वकौपीनं स्वदोषं विवृणुयात् 80a (18bro)प्रकाशयेत् । अत्रापीत्याद्याचार्यः । यदि तु न्यायश्चिन्त्यते तदानकस्यापि जयपराजयो न्याय्यौ। कथं वादिनो जय इत्याह साधनाभासेन जिज्ञासितस्यार्थस्याप्रतिपादनात् । अत एव न प्रतिवादिनोपि पराजयो वादिविवक्षितार्थसिद्धयपेक्षया प्रतिवादिनः पराजयव्यवस्थापनात् । प्रतिवादिनस्तहि किं जय इत्याह (1) भूते दोषानभिधानाच्च (19a1)। अतएव च न वादिनः पराजयस्त दूषणापेक्षया तद्व्यवस्थितेः । अथोत्तरपक्षवाद्यनेकदोषसद्भावेपि वादिप्रोक्तस्य साधनस्य कञ्चिद्दोषमुद्भावयति कञ्चिन्न । न तदासौ' निग्रहमर्हति । किङकारणमुत्तरस्य प्रतिपत्तेरभिधानादित्यर्थः। पर आह। अर्हत्येव निग्रहं सर्वेषान्दोषाणामनुभावनात्। आचार्य आह। न खलु भोः सन्त इति कृत्वा सर्वे दोषा अवश्यं वक्तव्याः प्रतिवादिना। अवचने वा दोषान्तरस्य निग्रहो भवति नेति वर्तते । कस्मात् सर्वे दोषा नोद्भाव्यं त इत्याह । एकेनापि (19a2) दोषेणासिद्धत्वादिनोभावितेन न तस्य वाविप्रयुक्तस्य साधनस्य विघातात्। साध्यसिद्धि प्रत्यसमर्थत्वप्रतिपादनादित्यर्थः । भाव साधनो वा साधनशब्दः । अत्रैव दृष्टान्त

Loading...

Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194