Book Title: Vadnyaya
Author(s): Shantrakshit Acharya
Publisher: Mahabodhi Sabha

View full book text
Previous | Next

Page 130
________________ २-न्यायमतखंडनम् [११३ प्रतिपाद्यस्य शिष्यत्त्वात् , विजिगीषुवादप्रतिषेधत्वात् त्रिरभिधानवचनात् । पुनर्वचनप्रसङ्ग समयनियमाभावाच्च । न चेदमधिकाद्भिद्यत इति न पृथगवाच्यं । विनियतपदप्रयोगे हि साधनवाक्ये आधिक्यदोष इति पुनर्वचनेपि गतार्थस्याधिक्यमेव पदस्येति । प्रपञ्चकथायामपि कथितैकार्थसाधनाधिकरणायालोनार्थसाधनेप्सायां नाना साधनेप्सां वा श्रोतुर्हेत्वादिबाहुल्यस्य पुनर्वचनस्य दोषत्त्वात् । प्रतीतप्रत्ययाभावाद्धत्वादिबा यच्चोच्यते नायं शिष्य इति तदसिद्धं । प्रतिपाद्यस्य शिष्यत्वात् (16ar)। तत्वज्ञानार्थतया प्रतिपाद्य एवं शिष्योन्यस्य तल्लक्षणस्याभावात्। प्रतिवादी च तथाभूतः कथं न शिष्यः। किमुच्यते नैवासौ प्रतिवादी तत्वज्ञानार्थास्पर्धया व्युत्थितत्वादिति। तदयुक्तं। पूर्वजिगीषुवादप्रतिषेधात् (16a1)। एवमपि नैवासौ यत्नप्रतिपाद्यस्त्रिरभिधाननियमस्य महर्षिणा कृतत्वादित्यत आह । त्रिरभिधान (16a1)वचनादित्यादि। अनेनैतद्दर्शयति । यद्वक्ष्यति। यदि तावत्परप्रतिपादनार्था प्रवृत्तिः किन्त्रिरभिधीयते तथा तथा स प्राहिणीयो यथास्य प्रतिपत्तिर्भवति । अथ परोपतापनार्था तथापि किं त्रिरभिधीयते। साक्षिणाङकणे निवेद्य प्रतिवादी कष्टाप्रतीतद्रुतसंक्षिप्तादिभिरुपद्रो' तव्यो यथोत्तरप्रतिपत्तिविमूढस्तूष्णीम्भवतीति । न चेद(16a1)मिति शब्दार्थयोः पुनर्वचनं। गम्यमानार्थपुनर्वचनं च। अभेदमेव साधयति । विनिय ते(16ai)त्यादिना। आधिक्यं (16a2) हेतूदाहरणयोर्दोषः । एकेन कृतत्वादितरस्यानर्थक्यमिति वचनात् । पुनर्वचनेपि गतो ज्ञातः पूर्वेणैव : शब्देनार्थो यस्योत्तरस्य पदस्य तदेवमुक्तं। तस्याधिक्यमेव दोष इत्यधिकृतं। 70b किम्पुननियतपदप्रयोगेऽयन्दोष इत्युक्तमिति चेदाह। प्रपञ्चकथायामदोष (16a2) इत्यभिसम्बन्धः। कस्य हेत्वादिबाहुल्यस्य (16a2)। पुनर्वचनस्य च। आदिशब्देनोदाहरणबाहुल्यग्रहणं। कीदृश्यामनिरूपितैकार्थसाधनाधिकरणायां अर्थः साध्यः। अर्थ्यत इति कृत्वा साधनं। हेतुरधिकरणन्धर्मी। अर्थसहितं साधनमर्थसाधनं । मध्यपदलोपात् । एकञ्च तदर्थसाधनञ्च तथोक्तम् । तस्याधिकरणन्तदनिरूपितमेकार्थसाधनाधिकरणं यस्यां प्रपञ्चकथायां प्रतिवादिना धर्मिणो जीवशरीरादे को धर्मो नैरात्म्यादिषु प्रमातुमिष्टोऽपित्वनेकः क्षणि'कत्वानात्मत्वानीश्वरकर्तृत्वादिस्तथा नैकेनैव हेतुना किन्त्वनेकेनापि तस्यामित्यर्थः। एतदेव यथाक्रमं ब्रूते। नानार्थसाधनेप्सायां नाना साधनेप्सायां वा श्रोतुरिति (16a2) पूर्वकः साधनशब्दो भावसाधनत्वात्सिद्धिवचनः । उत्तरस्तु करणसाधनत्वाद्धेतुवचनः। तस्माद्धत्वाविबाहुल्यं वचनबाहुल्यं साधनेन विनियतपदे दोषः। कस्मा(त्)

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194