________________
२-न्यायमतखंडनम्
[११३ प्रतिपाद्यस्य शिष्यत्त्वात् , विजिगीषुवादप्रतिषेधत्वात् त्रिरभिधानवचनात् । पुनर्वचनप्रसङ्ग समयनियमाभावाच्च । न चेदमधिकाद्भिद्यत इति न पृथगवाच्यं । विनियतपदप्रयोगे हि साधनवाक्ये आधिक्यदोष इति पुनर्वचनेपि गतार्थस्याधिक्यमेव पदस्येति । प्रपञ्चकथायामपि कथितैकार्थसाधनाधिकरणायालोनार्थसाधनेप्सायां नाना साधनेप्सां वा श्रोतुर्हेत्वादिबाहुल्यस्य पुनर्वचनस्य दोषत्त्वात् । प्रतीतप्रत्ययाभावाद्धत्वादिबा
यच्चोच्यते नायं शिष्य इति तदसिद्धं । प्रतिपाद्यस्य शिष्यत्वात् (16ar)। तत्वज्ञानार्थतया प्रतिपाद्य एवं शिष्योन्यस्य तल्लक्षणस्याभावात्। प्रतिवादी च तथाभूतः कथं न शिष्यः। किमुच्यते नैवासौ प्रतिवादी तत्वज्ञानार्थास्पर्धया व्युत्थितत्वादिति। तदयुक्तं। पूर्वजिगीषुवादप्रतिषेधात् (16a1)। एवमपि नैवासौ यत्नप्रतिपाद्यस्त्रिरभिधाननियमस्य महर्षिणा कृतत्वादित्यत आह । त्रिरभिधान (16a1)वचनादित्यादि। अनेनैतद्दर्शयति । यद्वक्ष्यति। यदि तावत्परप्रतिपादनार्था प्रवृत्तिः किन्त्रिरभिधीयते तथा तथा स प्राहिणीयो यथास्य प्रतिपत्तिर्भवति । अथ परोपतापनार्था तथापि किं त्रिरभिधीयते। साक्षिणाङकणे निवेद्य प्रतिवादी कष्टाप्रतीतद्रुतसंक्षिप्तादिभिरुपद्रो' तव्यो यथोत्तरप्रतिपत्तिविमूढस्तूष्णीम्भवतीति । न चेद(16a1)मिति शब्दार्थयोः पुनर्वचनं। गम्यमानार्थपुनर्वचनं च। अभेदमेव साधयति । विनिय ते(16ai)त्यादिना। आधिक्यं (16a2) हेतूदाहरणयोर्दोषः । एकेन कृतत्वादितरस्यानर्थक्यमिति वचनात् । पुनर्वचनेपि गतो ज्ञातः पूर्वेणैव : शब्देनार्थो यस्योत्तरस्य पदस्य तदेवमुक्तं। तस्याधिक्यमेव दोष इत्यधिकृतं। 70b किम्पुननियतपदप्रयोगेऽयन्दोष इत्युक्तमिति चेदाह। प्रपञ्चकथायामदोष (16a2) इत्यभिसम्बन्धः। कस्य हेत्वादिबाहुल्यस्य (16a2)। पुनर्वचनस्य च। आदिशब्देनोदाहरणबाहुल्यग्रहणं। कीदृश्यामनिरूपितैकार्थसाधनाधिकरणायां अर्थः साध्यः। अर्थ्यत इति कृत्वा साधनं। हेतुरधिकरणन्धर्मी। अर्थसहितं साधनमर्थसाधनं । मध्यपदलोपात् । एकञ्च तदर्थसाधनञ्च तथोक्तम् । तस्याधिकरणन्तदनिरूपितमेकार्थसाधनाधिकरणं यस्यां प्रपञ्चकथायां प्रतिवादिना धर्मिणो जीवशरीरादे को धर्मो नैरात्म्यादिषु प्रमातुमिष्टोऽपित्वनेकः क्षणि'कत्वानात्मत्वानीश्वरकर्तृत्वादिस्तथा नैकेनैव हेतुना किन्त्वनेकेनापि तस्यामित्यर्थः। एतदेव यथाक्रमं ब्रूते। नानार्थसाधनेप्सायां नाना साधनेप्सायां वा श्रोतुरिति (16a2) पूर्वकः साधनशब्दो भावसाधनत्वात्सिद्धिवचनः । उत्तरस्तु करणसाधनत्वाद्धेतुवचनः। तस्माद्धत्वाविबाहुल्यं वचनबाहुल्यं साधनेन विनियतपदे दोषः। कस्मा(त्)