________________
वादन्यायः
११२] नियतिपंदप्रयोगे साधनवाक्ये यथा प्रतिज्ञावचनमिति । अथ पुनरुक्तेनैव गतार्थत्त्वान्न पृथग्वाच्यं अयमपि नियतसाधनवाक्य एव दोषो वक्तव्यो न विस्तरकथायां व्याचक्षाणो हि कदाचिदसम्यश्रवणप्रतिपत्तिशङ्कया साक्षिप्रभृतीनां पुनः पुनब्रूयादिति न तत्र किञ्चिच्छलं । नाविषयादिति चेत् । नायगुरुर्न शिष्य इति न यत्नतः प्रतिपादनीयो येन पुनः
पुनरुच्यत इति । पुनर्वचने निग्रह एवेति चेत् । न (1) साक्षिणां यत्नेनप्रति16a पाद्यत्वात् । तदप्रतिपादने दोषाभिधानात्। प्रतिपादने दोषाभिधानात्।
दाहरणत्वेनोपन्यस्यति। नियतपदप्रयोगे साधनवाक्ये यथा प्रतिज्ञावचनमिति (15b9) नियतानां' पदानां प्रयोगो यस्मिन्निति कार्य । इदम्प्रतिक्षिपति
अर्थपुनरुक्तेनैव गतरार्थ)त्वान्न पृथग्वाच्यमिति । यथा हयेकशब्दप्रतिपादितेर्थे 69b तत्प्रतिपादनाय पर्या यशब्दान्तरमुपादीयमानमनर्थकन्तथा सामर्थ्यगम्येप्यर्थ इति
अर्थपुनरुक्तेनैवास्य सङग्रह इति समुदायार्थः। क्व पुनरेतत्प्रति'ज्ञादिवचनमर्थापत्तिलभ्यं पुनरुक्तं सन्निग्रहस्थानम्भवतीति प्रश्ने नियतप्रयोगे साधनवाक्ये (15b9) इत्येतदेवम्पक्षेण विवृणोति । अयमपि दोषो गम्यमानार्थपुनर्वचनकृतः साधनवाक्य एव नियतपदप्रयोग इति वर्तते। इदमुक्तम्भवति । यदा प्राश्निकाः शब्दार्थप्रमाणप्रविचयनिपुना [?णा]: प्रेक्षावन्तोत्यं तमवहितमनसश्च भवन्ति। प्रतिवाद्यपि तथाभूत एवेति वदन्ति यदन्तरेण न साध्यसिद्धिः तदेव प्रयोक्तव्यं । नाभ्यधिकमिति तदायन्दोषो नान्यथा यस्मात्करुणापरतन्त्रचेतसोऽनिबन्धनवत्सलाःप्रतिवादिनमतिद[?दुर्लभमिव शिष्यं न्यायववितारयितु यतन्ते तत्र पुनर्वचनमपि न दोषाय । एतदेवाह । व्याचक्षाणो हि वादी साक्षीप्रभृतीनामसम्यक्श्रवणप्रतिपत्तिशङका करणभूतया सम्यक्श्रवणप्रतिपत्यर्थम्पुनः पुन यादपीति (15bro)। नाविषय त्वादिति परः। इदमेव व्याचष्टे नायम्वादी गुरुः (15bII) प्रतिवादिनः । न शिष्यः प्रतिवाद्यपि वादिनः। द्वयोरपि परस्परजिगीषया व्यवस्थानादिति । तस्मात् न वादिना प्रतिवादी यत्नतः प्रतिपादनीयः। ने(15bII)त्याद्याचार्यः।
यदि नाम प्रतिवादी न प्रतिपाद्यते यत्नेन। साक्षिणस्त्ववश्यं यत्नेन प्रतिपाद्यास्त70a द्बोधना देव हि वादिनो जयोन्यथा च पराजय इति कथं साक्षिण एव न प्रति
पादयेत (?त्) किञ्चावश्यं साक्षिवत्प्रतिवाद्यपि प्रतिपाद्यः। कस्मात्तदप्रतिपादने दोषाभिधानात् । तच्छ (ले)न साक्षिप्रभृतयः प्रत्यवमृश्यन्ते यदि साक्षिप्रभृतयो न प्रतिपाद्या भवेयुस्ततो यद् भवद्भिः परिषत्प्रतिवादिभ्यान्त्रिरभिहितमविज्ञात मविज्ञातार्थ निग्रहस्थानमुक्तं (न्या० सू० ५।२।१६)। तद्विरुद्धघत इत्यर्थः।