________________
२-न्यायमतलंडनम्
[१११ शब्दो निरोध-धर्मको ध्वान इति । अत्र न शब्दपुनरुक्तं पृथग्वाच्यमर्थपुनरुक्तवचनेनैव गतत्त्वात् । न ह्यर्थभेदे शब्दसाम्येपि कश्चिद्दोषो यथा (-)
हसतिा हसति स्वामिन्युच्चैरुदत्यभिरोदिति (,) कृतपरिकरं स्वेदोङ्गारं पूर्धावति धावति । गुणसमुदितं दोषापेतं प्रणिन्दति निन्दति (,) धनलवपरिक्रीतं यन्त्रं प्रनृत्यति नृत्यति ॥(२)
यथा वा, यद्यस्मिन्सति भवति भवति न भवति (,) न भवति तत्तस्य कार्यमितरत्कारणमिति । गम्यमानार्थ पुनवचनमपि पुनरुक्तं
रुक्ततायाः प्राप्तिरेव नास्तीति किमर्थमयमपवादः प्रारभ्यते। सत्यमेवमे तत्। त एव तु प्रकृष्टताकिकाः प्रष्टव्याः। कथमेतदिति । अस्माकन्तु किं परकीयाभिर्गहचिन्ताभिश्चिन्तिताभिरित्यलम्प्रसङगेन । अत्र चेदमपि द्वितीयसूत्रम"स्ति अर्था- : दापन्नस्य स्वशब्देन पुनर्वचनमिति (न्या० सू० ५।२।१५) तदाचार्येण नोपन्यस्तमुपलक्षणार्थत्वात् । तद्भाष्य (म)पक्षिप्य निराकरिष्यति । गम्यमानार्थं पुनर्वचनमपी त्यादिना (15b9)। अत्रेत्यादिना (15b7) दूषणमारभते । एतदुक्तम्भवति । यत्र शब्दसाम्येप्यर्थो न भिद्यते तत्रार्थपुनरुक्तेन गतं यत्र तु शब्दसाम्येप्यर्थभेदस्तत्र 69a शब्दपुनरुक्ततायामपि न किञ्चित्कृतं। किमस्त्ययमीदृशः सम्भवो यच्छब्दपुनरुक्ततायामप्यर्थभेदोस्तीत्यत आह। यथा हसति हसतीत्यादि (15b7) । अत्र हि पूर्वो हसतिशब्दः सप्तम्यन्तो द्वितीयश्च तिङन्त इत्यर्थभेदः। एवमुत्तरत्रापि । काव्य ईदृशः सम्भवो न तु वाद इत्याशङकायामुदाहरति । यथा चेत्यादि (15b8) । ननु चेहाप्यर्थभेदवच्छब्दो[?ब्द भेदोप्यस्ति सुबन्ततिङन्ततया। सत्त्यन्न केवलमत्रापि । अत्राप्यनित्त्यः शब्दोऽनित्यःशब्द इत्यत्रास्त्येव शब्दभेदः स्वलक्षणभेदात्। अन्यथा न क्रमभावि श्रवणं स्यात् । समानश्रुतिसमाश्रयमिह पौनरुक्त्यं यदि व्यवस्थाप्यते तदत्रापि तुल्यमेव। अर्थभेद एवायं। क्रि याभेदादिवाच्यभेदात्। तद्वलकल्पित एव हि पदभेदः । गम्यमानार्थं पुनर्वचनमपि पुनरुक्तमिति (15b9) द्वितीयम्पुनरुक्तलक्षणसूत्रमुपलक्षयति। अस्य चोदाहरणं वात्स्यायनेन न्यायभाष्य उक्तं । साधर्म्यवति प्रयोगे वैधर्म्यस्य । आचार्यस्तु प्रतिज्ञायामप्येतत्समानमित्यागूर्य प्रतिज्ञायाः साधनवा क्येऽनुपन्यासं प्रतिपादयितुकामो वक्रोक्त्या प्रतिज्ञावचनमेवो
'न्या० भा० पृ० २६२ ।