________________
वादत्यायः
११०]
: हेतूदाहरणाधिकमधिकं (न्या०५।२।१३)। "एकेन कृतकत्त्वादित्यस्यानर्थक्यमिति तदेतन्नियमाभ्युपगमे वेदितव्यं" । यत्रैकसाधनवाक्यप्रयोगपूर्वको विचारस्तत्राधिकाभिधानमनर्थकमिति निग्रहस्थानं । प्रपञ्चकथायान्तु न कश्चिद्दोषो नियमाभावादिति ॥
___ शब्दार्थयोः पुनर्वचनं पुनरुक्तमन्यत्रानुवादात् (न्या० ५।२।१४)। "शब्दपुनरुक्तमनित्यः शब्दोऽनित्य(:) शब्द इति । अर्थ पुनरुक्तमनित्यः
तस्मादपि नैव भवति । यद्वा कृतकः शब्द इत्येतावद्वक्तव्यं । कृतक त्वस्य त्वनित्यत्वेनाविनाभावित्वं परस्य प्रसिद्धमिति शब्देप्यनित्यत्वं प्रतिपद्यत इति तेनानुकूलमेवाचरितं। तथा हि यदि वादिना कथञ्चिनिश्चितम्भवति प्रतिपन्नमनेन वादिना कृतकत्वं शब्द इति तदा नैव तेन पक्षधर्मोपसंहारः कर्तव्यो निष्फलत्वात्। प्रतिबन्धमात्रन्तु प्रदर्शनीयं । अथ तथा न' निश्चितं। तथापि यद्ययं परः पक्षधर्मोपसंहारे मया कृते तस्यासिद्धिञ्चोदयिष्यति। तदाहन्तां प्रत्ययभेदभेदित्वादिभिरुपायैः प्रतिनिवारयिष्यामि स्वयमेव वाऽचोदित एवाशडक्यतच्चेतस्याधाय पक्षधर्मत्वमुप
संहर्तव्यमेव कृतकश्च शब्द इति। यदाप्येवं वादी निश्चितवान कृतकत्वस्यानित्यत्वे68b नाविनाभा वित्वं परस्य प्रसिद्धमिति तस्यामप्यवस्थायां कृतकः शब्द इत्येतावेदव
वक्तव्यं । यथोक्तन्
तद्भानहेतुभावौ हि दृष्टान्ते तदवेदिनः ख्याप्येते विदुषाम्वाच्यो हेतुरेव हि केवल इति ॥(४४)।
तदेतन्नियमाभ्युपगम इत्यधिकं निग्रहस्थान। विशिष्टे विषये स्थापयति तञ्च विशिष्ट विषयमाह । यत्रेत्यादिना (15b5) । ननु चेदं नियमाभ्युपगमे वेदितव्यमिति भाष्यकारेणवोक्तं । तत्किमत्र दूषणमाचार्येणोक्तं सत्यन्न किञ्चिदुक्तं। आ (चा)र्येण तु पक्षिलोक्तमेवनूद्यतेऽभ्यनुज्ञानार्थम् ॥४॥ __ शब्दार्थयोः पुनर्वचनं पुनरुक्तमित्यस्यापवादमाह अन्यत्रानुवादादिति। अनुवादो निगमनं । अनुवादो हिन पुनरुक्तव्यपदेशं लभते। शब्दाभ्यामर्थविशेषोत्पत्तिः। यस्मात्साध्यनिर्देशः। प्रतिज्ञासिद्धनिर्देशो निगमनमित्युक्तं। पुनः शब्दश्च नानात्वे दृष्टः। पुनरियमचिरप्रभा निश्चरतीत्यप्यावेदितमेव । यद्येवन्तत्र तहिं पुन
'न्या० भा० पृ० २६२।
न्या० मं० पृ० ६५०--"एतच्च कीर्तिनाऽप्येवं कथितं प्रपञ्चकथायां तु न दोष इति ।"