________________
२-न्यायमतखंडनम्
[१०९ परिशिष्टेषु च सम्बन्धं प्रदर्श्य धम्मिणि भावः प्रदर्येत धम्मिणि भावं प्रदर्श्य सम्बन्धः प्रदर्येतेति न नियमः कश्चिदुभयथापिप्रतीत्युत्पत्तेरित्युक्तं । अप्रतीयमानसम्बन्धेषु च पदेषु न तेभ्य आनुपूर्व्या अपि प्रतीतेरिति नेदमपार्थकाद्भिद्यत इति नाप्राप्तकालं पृथग्वाच्यं स्यादिति ॥
हीनमन्यतमेनाप्यवयवेन न्यून (न्या० ५।२।१२)। यस्मिन्वाक्ये "प्रतिज्ञादीनामन्यतमोवयवो न भवति तद्वाक्यं हीनं साधनाभावे साध्यासिद्धेः" । न प्रतिज्ञान्यूनं हीनं तदभावे प्रतीतिभावादिति प्रतिपादितं । हीनमेव तत् न्यूनतायामपि निग्रहादित्यपरः। यः प्रतीयमानार्थमनर्थक शब्दं प्रयुक्त स निग्रहमर्हेत् नार्थोपसंहितस्याभिधातेति । असमीक्षिताभिधानमेतत् । अतएव च प्रतिज्ञाया न साधनाङ्गभाव इति ॥
भविष्यतीत्यत आह। परिशिष्टे (15bI) वित्यादि। अप्रतीयमानसम्बन्धपक्षे दोषान्तरं ब्रूते (1) नेदमपार्थकाद् भिद्यत (15b2)इति न पृथग्वाच्यं स्यादिति ॥४॥
यस्मिन्वाक्ये प्रतिज्ञादीनानिगमनपर्यन्तानामन्यतमोऽवयवो न भवति । तद्वाक्यं हीनं (15b3) निग्रहस्था नत्वे कारणमाह । साधनाभावे साध्यासिद्धेरिति (15b3)। इदनिराकरोति (1) न प्रतिज्ञादीनामित्यादिना (15b3)। प्रतिज्ञाग्रहणमुपलक्षणार्थं तेनोपनयनिगमनयोरपि' परिग्रहः। उद्योतकरस्य मतमुपन्यस्यति । हीनमेव तत् (15b3)। प्रतिज्ञान्यूनं । तस्त्राः प्रतिज्ञायाः न्यूनतायामपि निग्रहादिति अस्यायुक्ततामाह । यः साधनसामर्थ्यात्प्रतीयमानार्थमनर्थकं शब्दं साध्याभिधायिनं साधने प्रयुक्ते स निग्रहमर्हेत् (15b4)। तथा हि शब्दस्यानित्यत्त्वविचारे प्रस्तुते यदा ब्रवीति। कृतकानामनित्यत्वं दृष्टङकृतकश्च शब्द 68a इति । तदा वचनद्वया देवसाध्यार्थः प्रतीयत इति निरर्थकम्प्रतिज्ञावचनं । नार्थोपसंहितस्य युक्तियुक्तस्य पक्षधर्मसम्बन्धमात्रस्याभिधानेत्यसमीक्षिताभिधानमेत(5b4) द्वातिककारस्य। अत एव चेति (15b4) यतः प्रतीयमानार्थे शब्दे प्रयुक्त निग्रहमर्हति। तदत्राबिद्धकर्णः प्रतिबन्धकन्यायेन प्रत्यवतिष्ठते। यद्येवङकृतकश्च शब्द इत्येतदपि न वक्तव्यं किंकारणनी (? निमित्त)मनित्यत्वमित्येतेनैव शब्दे पि कृतकत्वमनित्यत्वञ्चोभयं प्रतिपद्यते। यस्मात्पूर्वमपि शब्दे कृतकत्वम्परेण प्रतिपन्नमेव करणाच्छब्दोपि बुद्धौ व्यवस्थितः । अतोन्वयवाक्येन स्मृतिमात्रकमुत्पाद्यते। अप्रतिपन्नकृतकत्त्वस्य पुनः कृतकश्च शब्द इत्ये
'न्या० वा० पृ० ५५६ ।