________________
१०८]
वादन्यायः
किञ्चिल्लक्षणमस्ति । अथ च सम्प्रदायः सात्ता ( ? ) ल्लोकस्तथैव प्रतिपद्यते तासाञ्च प्रयोगभ्रंशं । तथा संस्कृतानां शब्दानां प्रतीतिर्भविष्यतीति जडप्रतिपत्तिरेवैषा या शब्दानां लक्षणे प्रवृत्तिः ।
अवयवविपर्ययेपि यदि तेषां वचनानां सम्बन्धप्रतीतिर्न न विपयो नाप्यर्थाप्रतीतिः सामर्थ्यात् । न ह्यत्र कश्चित्सम 'यः प्रत्यायना - विशेषेण्येवमेवावयवाः प्रयोक्तव्या इति । स एव तेषां क्रमो यथावस्थितेभ्योऽर्थप्रतीतिर्भवतीति न विपर्ययात्प्रतीति ( : ) तत आनुपूर्वी प्रतिपत्त्या प्रतीतिरिति चेत् । नाप्रतोयमानसम्बन्धेभ्य श्रानुपूर्वी प्रतिपत्तिः । येषां शब्दानां कश्चित्सम्बन्धो जायते इदमिह सम्बध्यत इति । तेषु विदित: सम्बन्धेषु कः कस्य पूर्वोऽपरो वा क्रमो येन क्रमेण व्यवस्थाप्येरन् । सम्बन्धप्रतिपत्तौ स एव तेषां क्रमो यो यथावस्थितानां सम्बन्धः प्रतीयते । fe वाक्येषु पदानां क्रमनियमः कश्चित् यथा राज्ञः पुरुषः पुरुषो राज्ञ इति । यावद्भि (:) पदै परिसमाप्ति ( : ) तदैकं वाक्यं यथा देवदत्त गामानय कृष्णामित्यत्र पदानां यथाकामं प्रयोगेपि नार्थप्रतीतौ विशेष 15 इति कश्चित्क्रमाभिनिवेशः । प्रतिपादितञ्च प्रतिज्ञावचनान्तरेणापि यथा प्रतीतिर्भविष्यतीति प्रतीयमानार्थस्य शब्दस्य प्रयोगेऽतिप्रसङ्गः
इ (त्) थं शा (f) ब्दकस्योन्मत्तकतामुपदर्थ्याधुना भारद्वाजस्याह ।
अवयवविपर्ययेपीत्यादि ( 1526 ) । सम्वन्धप्रतीतिरिति सम्बन्धः परस्परमुपकार्योपकारकभावः। सामर्थ्याद्विवक्षितप्रतिपादन इति शेषः । अथ स्यादक्षपाद - सिद्धान्तनीतिपालनाय न प्रतिज्ञादीनां क्रमव्यत्ययः क्रियत इत्यत्राह । नत्र 67b कश्चित्समयः ( 1526 ) सिद्धान्तो नियमो वा प्रमाणोपेत इत्यप्याह । न'पर आह । न विपर्ययात्प्रतीति: ( 1527 ) साध्यस्य । किन्तु ततो विपर्ययादानुपूर्व्या प्रतीतिरिति । अस्य प्रतिषेधः । नाप्रतीयमानसम्बन्धेभ्य आनुपूर्वी प्रतीतिरिति (1528 ) । 1 येषामित्यादिन ( 528 ) तदेव व्याचष्टे ॥ अपि च प्रतिज्ञोपनयनिगमनानां पूर्वमेवास्माभिः साधनवाक्ये प्रयोगः प्रतिक्षिप्तः । तत्कुतस्तत्कृतो विपर्यय इत्येतत्कथयति ( 1 ) प्रतिपादित (15210) मित्यादिना । प्रतिज्ञाग्रहणमुपलक्षणार्थं । अथ सामर्थ्यलभ्यापि प्रयुज्यते तदातिप्रसङ्ग इत्येतदाह । प्रतीयमानार्थस्य च प्रयोगेति ( 15b1) प्रसङ्गः साधर्म्यवति प्रयोगे वैधर्म ( ? ) स्यापि प्रयोगप्रसङ्गः । न चेष्यते । अर्थादापन्नस्य स्वशब्देन पुनर्वचनञ्चेति (न्या० सू० ५।२।१५) निग्रहस्थानवचनात् । पक्षधर्मान्वयव्यतिरेकेषु तर्हि प्रतिज्ञाद्यभावेपि क्रमनियमो -