________________
२- न्यायमतखंडनम्
[ १०७
धर्म्मसाधनचोदनाशून्यकेवल शब्दसु प्रयोगान्नगपातं इति ब्रुवाणस्य कस्यचिन्मुखं वक्रोभवति । तस्मान्न' संस्कृतो नाम कश्चिच्छब्दः । १
शिष्टप्रयोगः संस्कार इति चेत् । के शिष्टाः (1) ये वेद्यतादिगुणयुक्ताः । कः पुनरेषां गुणोत्कर्षानपेक्षोऽलीकनिर्बन्धो यत्तेऽमूनेव शब्दान् प्रयुञ्जते नापरान् । न चात्र कश्चिच्छब्दे (S) पवाह्यः साक्षी यत इतीदमेव निश्चिनुमः । प्रयुञ्जते नाम शिष्टा नन्वेवं वयं गुणातिशयमपश्यन्तः संस्कारं केषां चिच्छव्दानामनुमन्यामहे । तदन्वाख्यानं यत्नं वा गुणातिशयाभावात् वेदरक्षादिकथाप्रयोजनमेव । तत्स्थामवस्थापि ( ? ) नः । सत्यपि गुणातिशयेन करणीय एवान्वाख्याने यत्नः । तत्स्वभावस्यान्यतोपि सिद्धेः प्राकृतापभ्रंशद्रमि + डान्प्रादिभाष ( 1 ) वत् । न हि प्रतिदेशं भाषाणां
विषयद्वयपरिशुद्धिः परिनार्था ( ? ) विसम्वादश्चास्तीति तृतीयेपि राशावाहितपरितोषाः प्रेक्षावन्तः प्रवर्त्तन्ते । नत्वेवं भवन्मतेऽनन्तरोदितद्वयमपि प्रमाणव्याहतत्वात् 67a प्रमाणव्याहतिश्चानन्तरमेवावेदिता । तस्माद्दरिद्रेश्वरस्पर्धासमानमेतत् (1)
विदितवेद्यादिगुणप्रयुक्ता ( 1522 ) इत्यन्तर्भावितभावप्रत्यययो [ ? य ] निर्देश': । विदितं वेद्यं हेयोपादेयत्वं यैस्ते तथोक्ताः । आदिग्रहणात् करुणादिपरिग्रहः । अमूने (5a2 ) व संस्कृतानपरानसंस्कृतान् । एतदुक्तम्भवति ( 1 ) शब्दो हि व्यवहारोर्थप्रत्यायनफलः । तच्च यथा संस्कृतेभ्यः सङ्केतवसा [? शा] त्सम्पद्यते तथाऽसंस्कृतेभ्योपीति किमस्थानेभिनिविष्टाः शिष्टाः । अत एव च मन्ये प्रेक्षावद्भ्योन्यत्वादनुगता 'र्थमेवं नामामीषामिति । अथवा किमस्माकमर्हषितिः ( ? ) प्रत्याख्यानंः ॥ ते अमून्नैव प्रयुञ्जते नापरानित्यत्रैव निश्चयाभावात् । यदाह (1) न चात्र शब्दे परोक्षः साक्षी यतः साक्षिण इदमेवामूनेव प्रयुञ्जते नापरानिति निश्चिनुम: ( 1523 ) ।
ननु चोक्तन्तदन्वाख्यानस्य प्रयोजनं रक्षोहागमलघ्वसन्दे' हा ( महाभाष्येआहि१) इति । तत्कथं गुणातिशयाभावादित्युच्यत इत्याह । वेदरक्षादिकञ्चाप्रयोजनमेवातत्समयस्थायिन ( 1524 ) स्ताथागतस्य । न्यायानुपायित्वात् । तत्स्वभावस्य (1524) साधुशब्दरूपस्य । अन्यतोपीति (1524) बृद्धप्रवादपारम्पर्यात् । एतदेव दृष्टान्तोप्रक्रमं व्यनक्ति । प्राकृतेत्यादिना ( 1524 ) ।
१ अत्र वाचस्पतिः (न्या० वा० ता० पृ० ) -- " तदेवं व्यवस्थिते न्यायमीमांसापरिशीलनविकलानां बाह्यतराः प्रलापा उपेक्षणीयाः ।"
१४