________________
१०६]
वादन्यायः न व्यर्थ संस्कृत शब्दव्युत्पत्त्यर्थमिति चेत् । कोऽयं शब्दानां संस्कारः। नयेषां प्रज्ञाबाहुश्रुत्यादिकं संस्कारं पश्यामो, नाप्येषामेकान्तेन श्रव्यता। नाप्यर्थप्रत्यायने कश्चिदतिशयः। न धर्मसाधनता
मिथ्यावृत्तिचोदनेभ्यः संस्कृतेभ्योप्यधर्मोत्पत्तिः। अन्येभ्योपि 15a विपर्यये धर्मोत्पत्तेः । शब्दस्य सुप्रयोगादेव स्वर्गमोदनघोषणा'
वचनमात्रं (1) न चैवंविधानागमान(1) द्रियन्ते युक्तिज्ञाः । न च दानादि
पादकत्वमिति। विपर्ययदर्शनाच्चेत्युपचयान्तरं। तथाहि वृक्षोग्निरुत्पलमित्युक्ते' .
ऽव्युत्पन्नधियो वालाः प्रश्नोपक्रम सन्तिष्ठन्ते। कोयं वृक्ष इत्यादिना। ते चान्यस्य 66b व्युत्पादनोपायस्याभावादपशब्दैरेव व्युत्पाद्यन्ते रुक्ख अग्गी उप्पलमिति ॥ तदेव
मत्रासाधव एव वाचका न साधवः सन्तोपीति विपर्ययो दृश्यते (1) अथ प्रतिपद्यसे धर्मसाधनता शब्दसंस्कारो यथोक्तुं ।
शिष्टेभ्य आगमात् सिद्धं साधनो धर्मसाधनं अर्थप्रत्यायनाभेदे विपरीतास्त्वसाधव (४२) इति । तथा "मन्त्र (ो) हीनः स्वरतो वर्णतो (वा) मिथ्याप्रयुवतो न तमर्थमाह ।
स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतोपराधात् । (४३) ते सुरा हेऽलयो (हे)ऽलय इत्युक्तवंतः परावभूवुः। एकोपि शब्दः सम्यक्प्रयुक्तः सुकृतिनां लोकङगमयति। आहिताग्निरपशब्दमभिधाय प्रायश्चित्तीयामिष्टिं निर्वपे(दि)त्यादि।" (महाभाष्ये आह्निके १) इदमपसारयति न धर्मसाधनता (14b9) शब्दानां संस्कार इति वर्तते किङकारणमित्याह । मिथ्यावृत्तिचोदनेभ्य (14b9) इत्यादि। मिथ्यावृत्तिश्चोद्यते यरि ति कार्य । यथा हयस्याभिनवविद्रुमाङकुरप्रकराभिरामकिशलयम मञ्जरीराजीविराजिततरोरशोकवनस्पतेरधः शयितस्य द्विजन्मनो नीलनीरजनीलतातिशायिना मण्डलाण शिरश्छित्त्वेत्युक्तेपि भवत्येव ब्रह्महत्यया सम्बन्धः प्रयोजकस्य । अन्येभ्य इत्यसम्भूतेभ्यो विपर्ययेण सम्यक्त्ववृत्तिचोदनेन । यथा अस्स बम्भणस्स गावी दीअदि। सर्वञ्चेदमप्रमाणत्वाद्वचनमात्रं भवताविमत्याकूतवानुपचयमाह। शब्दस्य सुप्रयोगादेवेत्यादि (14b9)। एवं विधानित्यप्रमाणकान्। ___ ननु च "प्रतिष्ठिते भूप्रदेशे चैत्यङकारयति ब्राह्मयं पुण्यं प्रसवति कल्पं स्वगेषु मोदत" इत्यादावपि प्रमाणाभावादयं तुल्यः प्रसङगो भवतामपि । न तुल्यो यस्मादत्र
१ व्याकरणमहाभाष्ये पस्पशाहिके।