________________
[१०५
२-न्यायमतखंडनम् ऽसमर्थस्य शब्देपि प्रतीतिजननासामर्थ्याच्च । नार्थेपि वाचकत्त्वं नामान्यदेवान्यत्र तद्विषयप्रतीतिजननात् । अपशब्दश्चेच्छब्दे प्रती तिञ्जनयेत् । अर्थ एव किन्न जनयति । न ह्येतस्यार्थात् किञ्चिद्भेदं पश्यामो येन तं परिहरेत् । अकृतसमयस्य शब्देप्यप्रतीतिजननाच्च । नह्ययमप. शब्दः शब्देपि स्वभावतः प्रतीतिं जनयत्यदर्शनासमयत एव तु जनयेत् । समयवसा[ ? शात्प्रवर्तते । एवं हि प्रतिपत्तिपरम्परापरिश्रमः परिह तो भवति । विपर्ययदर्शनाच्च । शब्दादर्थमप्रतिपद्यमाना अपशब्दैरेव ज्ञानं व्युत्पद्यमाना लोके दृश्यन्ते इति व्यर्थ शब्दानुशासनं ।
गोशब्देऽवस्थितेस्माकन्तदशक्तिजकारिता ।
गाव्यादेरपि गोबुद्धिर्मूलशब्दानुसारिणी (४१)ति ॥ तस्यापीद मेव प्रतिविधानमिदञ्च सर्वमागूयं निगमयति। न परम्परया प्रतीतिरिति । अत्रैवोपचयमाह। अर्थे प्रतिपादनायासमर्थस्यासाधोः शब्देपि साधौ प्रतीतिज'ननासामर्थ्याच्च । तत्रतत्स्यान्न वयमसाधूनामर्थेषु प्रतीतिजनकत्वं निराकुर्मः। किन्तु वाचकत्वं । शब्दे चासाधुः प्रतीतिजनक एव न वाचक एव इत्यत आह। न ह्यर्थेपि शब्दस्य वाचकत्वमन्यदेवे (14b4)- 66a त्यादि। यद्यसाधोरर्थे प्रतीतिजनकत्वमिष्यते। तदैतावता वयमाहितपरितोषाः । किमस्माकमभिधानान्तरकल्पितेन वाचक त्वेनेत्याकूतं। नैव तॉसावर्थप्रतीति जनयितुं क्षमोऽपि तु शब्द एवेति चेदाह । अपशब्दश्चेदि (14b4)ति। अथोच्यते शब्देन तस्य स्वाभाविकः सम्बन्धो नार्थेन ततस्तमे व प्रतिपादयति नार्थन्तद्यथा स्वभावतश्चक्षुरूपं प्रकाश (य)ति न शब्दादीनत आह। अकृतसमयस्ये (14b5) त्यादि। अदर्शनादिति। न ह्यप्रतीतसम्बन्धाः सिंहलशब्दा आर्य जनव्यवहाराय वर्तन्ते। समय एव तु जनयेत् प्रतीति । सामयिके च तत्र सम्बन्धे सोर्थेप्यनिवार्यः। समयवसा[? शादसाधुः साधौ वर्तमानोर्थ एव गवादौ किन्न प्रवर्तते। नहि किञ्चित्तथा दोषो गुणस्तु केवल इत्याह । एवं हीत्या (14b6)दि। एतदुक्तम्भवति । ये स्वभावतः प्रकाशका न ते समयमपेक्षन्ते । यथा चक्षुर्दीपादयो रूपादीनां । स्वभावतश्चापशब्दो यदि शब्दस्य प्रकाशको भवेत् । ततस्तेनापि सम्बन्धोनापेक्षः स्यात् । अपेक्ष्यते च ततो नास्य शब्दे स्वा (भा) विकं सामर्थ्य । तथा चेदमपि शक्यमनुमातुं। ये समयाक्षेक्ष [? पेक्ष]प्रवृत्तयस्ते सर्वत्र यथासमयमनिवारितप्रसराः साक्षादेव प्रतिपादका भवन्ति । यथाकायविज्ञप्त्यादयः। तथा चापशब्दा अपि समयापेक्षप्रवृत्तय इति सिद्धमेषामव्य (व)धानत एवार्थप्रति