________________
१०४ ]
वादन्यायः
वेत्ति न नासाशब्दं स कथमपशब्दाच्छब्द प्रतिपद्येत ततोर्थ प्रतिपद्येत (1 ) दृष्टा चानुभयवेदिनोपि प्रतीतिरिति न परस्परं यापि प्रतीतिरर्थे
निश्चितं । तच्च न सम्भवति । यस्मादेतावदनुभयवेदिनः सनकादयस्ते सन्तमपि व्याप्यव्यापकभावन्न प्रतिपद्यन्ते । न चासाव ज्ञातो गमको ज्ञापकत्वात् । येपि शब्दापशब्दप्रविभागकुशलास्तेप्यविद्यमानत्वादेव भावयन्ति । तथाचसाधूनां साधुभिः सम्बन्धस्तादात्म्यं कार्यकारणभावो वा भवेत । तदुभयविकलस्याव्यभिचारनियमाभावात्। तत्र च तावन्न तादात्म्यमभ्युपेयं पारमार्थिकस्यैव भेदस्य स्फुटं प्रत्यक्षतः प्रतीतेः । शब्दवद साधोरप्यव्यतिरेकतो वाचकत्वप्रसङ्गाच्च । तदुत्पत्तिरपि दूरोत्सारितेव । यतो नासाधवः साधुभ्यो जायन्ते । क (1) रणगुणवक्तुकामतामात्रहेतुत्वा' - तेषां । न च तेषान्नित्यत्वङकादाचित्कोपलम्भतः । तत्वे वा सुतरान्तदुत्पत्तेरभावः सत्यपि वा व्याप्यव्यापकभावे तत्परिज्ञाने च पक्षधर्मत्ववैक' ल्याच्चाक्षुषत्वादेरिवासाधुभ्यो नानुमानं । नहयत्र धर्मे विद्यते । यतः पक्षधर्मत्वं निष्पद्यते । नहि साधूनामेव धर्मित्वन्तेषामेवानुमीयमानत्वात् । न च धर्मसाधनं युक्तिमतः । भावा-, भावोभयधर्मस्यासिद्धविरुद्धानैकान्तिकदोषदुष्टत्वतः । कथं वा साधूनां तत्धर्मत्वं । नहि तत्काले ते सन्ति । असताञ्च धर्मित्वं वाचकत्वं' चेति सुभाषितं । किमुच्यते पुरुषो धर्मी साधुशब्दविवक्षा साध्यधर्मः पक्षधर्मश्चासाधुरिति तदप्यसम्बद्धं । 6sb व्याप्यव्यापकभावाभावादेव । यस्मान्न च गोणीशब्दप्रयोगकाले गोशब्दविवक्षामुपलभामहे । अथ प्रत्यवस्थीयते । यथा पक्षधर्मत्वादिवैकल्येप्यव्यक्तं । बालवचोव्यक्तमनुमापयति । तथैवासाधवोपि । साधूनिति ( 1 ) तदयुक्तं तत्रापि तुल्यपर्यनुयोगत्वा - त् । वयन्तु प्रतिपद्यामहे साक्षादेव तस्मादप्यव्यक्तान्मात्राद्यर्थः प्रतीयत इति । तत्र संज्ञासंज्ञिसम्बन्धस्याननुभूत' त्वादयुक्ताप्रतीतावित्यपि न मन्तव्यं । अनादिमति संसारे व्यवहारपरम्परायास्तथाभूतायाः सम्बन्धस्योल्लिङ गितत्वात् । तथाहि न गवादिशब्दानामपि प्रायः शृङ्गङग्राहिकयार्थनियमः सङ्केत्यतेपि तु व्यवहारपारम्पर्यतो विदग्धा निश्चिन्वन्ति । तच्चेहापि समानमेव । तस्मादेतदरण्यरुदितं । अम्बम्विति यथा बालः शिक्ष्यमाणः प्रभासते । अव्यक्तन्तद्विदान्तेन व्यक्तेन भवति निश्चयः ॥ ( ३९ ) एवं साधौ प्रयोक्तव्ये यो यद्भ्रंशः प्रयुज्यते । तेन साधु व्यवहितः कश्चिदर्थोवसीयत (४०) इति ॥ यदप्यभ्यधायि कुमारिलेन ।