________________
२-न्यायमतखंडनम्
[१०३ स्थानं ।" "नैवमपि सिद्धेरिति चेत्" । न (।) प्रयोगापेतशब्दतुल्यत्वात् । यथा गौरित्यस्य पदस्या गोणीति प्रयुज्यमानं पदङ्ककुदादिमन्तमर्थ प्रतिपादयतीति न शब्दार्थाख्यानं व्यर्थ । अनेन च पदेन गोशब्दमेव प्रतिपद्यते गोशब्दात् ककुदादिमन्तमर्थ तथा प्रतिज्ञाद्यवयवविपर्ययेणानुपूर्वी प्रतिपद्यते । आनुपूर्व्या चार्थमिति । तथा हि पूर्व कर्मोपादो'. यते ततः कर(ण) (मृत्) पिण्डादिकं लोक इति । तदेतदुन्मत्तस्योन्मत्तसम्बर्णनमिव प्रयोगापेतशब्दवदेतदिति । यदि गोणी-शब्दात्ककुदादिमत्यर्थे प्रतीतिशब्दान्वाख्यानप्रयत्नेनार्थ पश्यामः। गोणीशब्द- 14b स्यार्थप्रतिपादनेऽसामर्थ्यात् प्रतिपादकव्युत्पत्त्यर्थमन्वाख्यानमिति चेत् ।
ननु गोणीशब्दादपि लोके प्रतीतिहष्टा । सत्यं दृष्टा न तु साक्षादित्युक्तं । उक्तमेतन पुनर्युक्तं स्त्रीशूद्राणामुभयप्रतीतेरभावात् । यः खलूभयं वेत्ति शब्दमपशब्दश्च स एवं प्रतिपद्यते । यस्तु नक्क शब्दम्मुक्कशब्दमेव वा
निग्रहस्थानं । यथा घटवत्कृतकत्वादनित्य इति । नैवमपि सिद्धेरिति भार द्वाजः स्वयमेवाशङक्य परिहरति । न प्रयोगापेतशब्दवदेतत्स्यादिति अनेनेति गोणीपदेन । यथा (1)
अम्बम्बिति यथा वाल: शिक्ष्यमाण: प्रभासते[? षते ।] अव्यक्तं तद्विदान्तेन व्यक्ते भवति निश्चयः । (३८)
तथा किल गोण्यादयः शब्दाः ते साधुष्वनुमणि[? ने]न प्रत्ययोत्पत्तिहेतव इति । तदेतदुन्मत्तकस्य वैया करणस्योन्मत्तकसंवर्णनमुन्मत्तकेनोद्योतकरेण संवर्णनं यथा हक उन्मत्तो द्वितीयमन्मत्तकं सम्वर्णयति तथा भूतमेतदपीति यावत् । यदि चोन्मत्तकस्योद्योतकरस्योन्मत्तकस्य वैयाकरणस्य सम्वर्णनं । तथा हि शाब्दिक एव तावदुन्मत्तः प्रमाणविरुद्धवत्त्वाभिधायित्वात् । तत(:) कुतस्तत्प्रक्रियायाः प्रमाणचिन्ताया ज्ञापकत्वमित्यभिप्रेतं । कथम्पुनः शाब्दिकस्यायुक्ताभिधायित्वमित्याह । यदि(14a4)त्यादि सुबोधं। स्त्रीशद्रशब्दो मर्खवचनः।' यस्तु नक्कशब्दं मक्कशब्दमेव नासापर्यायम्वेत्ति । स कथमपशब्दाच्छब्दं साधुं प्रतिपद्यातः साधोः शब्दादर्थम्प्रतिपद्येत । किमुच्यते नैवासौ तथा विवोधम्प्रतिपद्यत इत्याह । दृष्टाचानुभयवेदिनोपि (14b3) सनकादेः प्रतीतिरिति तस्मान्न परम्परया प्रतीतिरर्थस्य । अयमत्र संक्षेपः। स्यादेवमसाधूनां साध्वनुमापकत्वम् । य येषान्धूमावीनामिव त्रैरूप्यम्भवे- 65a
'न्या० भा० पृ० २६१। २दिङनागेन कृत आक्षेपः। न्या० वा० पू० ५५५-५६ ।।