________________
१०२]
पृथग्वाच्यं । नोभयसंग्रहात् । अपार्थकान्निरर्थकस्यासङ्ग्रहप्रसङ्गात् । एवम्विधार्थविशेषसमाश्रयात् । पृथग् निग्रहस्थानलक्षणप्रलपनेऽतिप्रसङ्गप्युक्तः न च संग्रहनिर्देशे कश्चिद्दोषं पश्यामः । प्रभेदे वा गुणान्तरमिति यत्किञ्चिदेतत् ॥
वादन्यायः
अवयवविपर्यासवचन' मप्राप्तकालं ( न्या० ५/२/११ ) । “प्रतिज्ञादीनां यथा लक्षणमर्थवशात्क्रमस्तत्रावयवानां विपर्ययेणाभिधानं निग्रह -
प्रदर्शनार्थः । अनभिमतत्वमेवाह । नन्वयं पदानामसम्बन्धादपार्थकवदसम्बन्ध64a वाक्यमपि निरर्थकात् पृथग् वाच्यं स्यात् । स्यात्मतमपार्थकं" नैवासम्बद्धपदार्थासम्बद्धवाक्यार्थयोः सङ्गृहीतत्वात् पृथग् न वाच्यमित्यत उच्यते । नोभयसङग्रहाद (1423) पार्थकं युक्तं । कस्मादसम्बद्धपदार्थेनापार्थकेनैवासम्बद्धवा ' क्यस्येव निरर्थकस्यापि वर्णक्रममात्रलक्षणस्य सङ्ग्रहप्रसङ्गात् । अथोच्यते । निरर्थकं किमुच्यते । यस्यार्थ एव नास्ति केवलं वर्णक्रममात्रं । असम्बद्धपद' वाक्ययोस्तु साध्यसिद्धयनुपयोगेपि न सर्वथा नैरर्थक्यमतोऽर्थतत्वे साम्यात् द्वयोरेवैकीकरणमित्यत आह । एवं विधाच्चेत्यादि । कपोलवादितादीनामपि पृथगभिधानप्रसङ्ग इत्यत्रातिप्रसङग उक्तः । नहि किञ्चित्मात्रेण विशेषो न शक्यते क्वचित्प्रदर्शयितुमित्यभिसन्धिः अथ निरर्थकापार्थकयोः सङग्रहनिर्देशदोषं भेदनिर्देशे च गुणम्पश्यताऽक्षपादेन न सङग्रहनिर्देशः कृत इति मन्यसे । न साधु मन्यस इत्याह । न च सङग्रह (14a 4) इत्यादि ॥ ४ ॥ *
यथा लक्षणमर्थवसा [? शा] दित्यर्थः सामर्थ्यं । अनुपदर्शिते हि विषये निर्विषया साधनप्रवृत्तिर्मा भूदिति साध्यनिर्देशलक्षणा प्रतिज्ञा पूर्व्वमुच्यते। तदनन्तरमुदाहरणसाधर्म्यात्साध्यसाधनं हेतुरित्येवं लक्षणो हेतुस्तत्साधनायोच्यते । ततो हेतोर्वहिर्व्याप्तिप्रदर्शनार्थं साध्यसाधर्म्यात्तद्धर्मभाविदृष्टान्त उदाहरणमि ( न्या० सू० १।१।३६) त्येवं लक्षणमुदाहरणं । ततः प्रतिबिंबनार्थं साध्यधर्मिणि सम्भवप्रदर्शनार्थम्वाउदाहरणापेक्षस्तथेत्युपसंहारो न तथेति वेति साधनस्योपनय ( न्या० सू० १।१।३८ ) इत्येवंलक्षण उपनयः । तत उत्तरकालं सर्व्वावयवपरामर्षेण [? र्शेन] विपरीतप्रसङ्ग64b निवृत्यर्थं हेत्वपदेशात् प्रतिज्ञायाः पुनर्वचनं निगमनमि ( न्या० सू० १ १ ३९ ) त्येवं लक्षणं निगमनमिति । अयमसौ यथालक्षणमर्थवसा [ ? शा]त्क्रमः । तथाहि लोकेपि पूर्व्वङकार्यं मृत्पिण्डाद्युपादीयते पश्चात्तु करणञ्चक्रदण्डादिकमिति' न्यायः । तत्रैतस्मिनक्रम [ ? न्क्रमे ] न्यायतः । स्थितेऽवयवानां प्रतिज्ञादीनां विपर्ययेणाभिधानं