SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ २-न्यायमतखंडनम् [१०१ प्रतिवादी निगृह्यते । जाड्यात्पर्षदादेरपि ज्ञातप्रतिपादनासामर्थ्य इति विजेता न स्यान्न निग्रहाहः। असम्बद्धाभिधाने निरर्थकमेवेति न पृथग्विवक्षिताथै नाम निग्रहस्थानमिति ॥ त् ॥ | पौर्वापर्यायोगादप्रतिबद्धार्थ मपार्थकं (न्या०५।२।१०)। “यत्रानेकस्य पदस्य वाक्यस्य वा पौर्वापर्येण योगो नास्तीत्यसम्बद्धार्थता गृह्यते । तत्समुदायार्थोपायादपार्थकं दशदाडिमादि वाक्यवत् । इदं किल पदानामसम्बद्धादसम्बद्धवर्णानिरर्थकात्पृथगुक्तं (1) नन्वेवमसम्बद्धवाक्यमपि I4a भिक्यिन्न ज्ञायत इत्याह । क्लिष्टशब्दमित्यादि । क्लिष्टशब्दं मनागुच्चारितत्वात् । अपशब्दत्वादित्यपरे। कस्मादेवं प्रयुक्तमित्याह । असामर्थ्यसम्वरणाये (13b9) ति । स्पष्टार्थस्य प्रयोगे दूषणम्वक्ष्यतीति भयात्प्रयुंक्ते । इदञ्च साधनदूषणवादिनोः समानं । दूषणवाक्यमपि हयेवंभूतनिग्रहप्राप्तिकारणं। नेदं निरर्थकाद्- 63b भिद्यते । तथा हि श्लिष्टशब्दादिभिः प्रकृतार्थसम्बद्धङगमकमेव ब्रूयात् । एतद्विपरीतम्वा । प्राक्तने प्रकारे नास्यासामर्थ्यन्तत्र तु परिषदादयो जाड्या' त्तदुक्तन्न : प्रतिपद्यंत इति नेयता विद्वान्वादी निग्रहमर्हति । वक्तुरेव हि तज्जाड्यं यच्छ्रोत्रा नावबुद्धयतें ।(३७) ततोसौ निग्रहार्ह एवेत्याकूतवानाह परः। परिषत् प्रज्ञामिति । न्यायवादिन (13b9) इति परिहरति । न्यायवादिनः उक्तमिति सम्बन्धः । वादी तु जाड्यात्परिषदादेरविज्ञातसाधनसामर्थ्य इति कृत्वा विजेता न स्यात् । परिषत्प्रतिवादिप्रत्यायनेन जयव्यवस्थापनात् । अविज्ञातं प्रतिपादनसामर्थ्य परिषत्प्रतिवादिभ्यां यस्येति कार्य । द्वितीयन्तु विकल्पमधि कृत्याह। असम्बद्धाभिधाने निरर्थकमेवे (14a1)ति ॥४॥ अनेकस्य पदस्येति । यदानीमसम्बद्धार्थप्रतिपादकत्त्वे वाक्यार्थप्रतिपादकत्वं निराकरोति' वाक्यस्यासम्बद्धार्थप्रतिपादकत्वे प्रकरणाध्यायप्रतिपत्यभावः । समुदायप्रतिपत्यभावाच्च निग्रहस्थानं । उदाहरणं दश डा[? दा] डिमाः षडपूपाः कुण्डमजाजिनं पललपिण्डं। अथ रौरुकमेतत् कुमार्यः स्फैयकृतस्य पिता प्रतिशीन'' इति अत्र च भारद्वाजेन निरर्थकापार्थकयोरभेद इत्याशङकय' प्रतिविहितं तत्र हि वर्णमात्रमिह यदान्यसम्बद्धानीति। तदेवाचार्योप्युपक्षिपति । इदं किले (14a2)त्यादिना। असम्बद्धा वर्णा यस्मिन्निरर्थक इति विग्रहः। कि ल शब्दोऽनभिमतत्व १वप्रतिसंबद्धार्थ-इति न्या० भा० पाठः ।
SR No.002368
Book TitleVadnyaya
Original Sutra AuthorN/A
AuthorShantrakshit Acharya
PublisherMahabodhi Sabha
Publication Year
Total Pages194
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy