________________
१००]
वादन्यायः र्थकं ब्रवीति तस्य तेनैव निग्रह इति । तत्तुल्यं सर्वस्यासाधनाङ्गवादिन इति । स सर्वो निरर्थकाभिधा( नो )प्यनेनैव निग्रहस्थानेन निग्रहाहः । न च वरणक्रमनिर्देश (:) सर्वत्र निरर्थकः, कचित्प्रकरणे तस्याप्यर्थवत्त्वात्। तस्मादत्रैवास्यानर्थक्यात् निग्रहस्थानत्त्वं । अपिचान्यदि दमुच्यते वर्णक्रमनिर्देशो निग्रहस्थानमिति । कपोलवादितकंच्यघट्टितकमित्येवमादीनामपि वाच्यत्वात् ॥
पर्षत्प्रतिवादिभ्यान्त्रिरभिहितमप्यविज्ञातार्थ (न्या० ५।२९)। "यद्वाक्यं पर्षदा प्रतिवादिना च त्रिरभि हितं न विज्ञायते श्लिष्टशब्द-. मप्रतीतप्रयोगमतिद्रुतोच्चारितमित्येवमादिना कारणेन तदविज्ञातार्थमसामर्थ्यसम्बरणाय प्रयुक्त निग्रहस्थानमिति" (1) नेदं निरर्थ' काद्भिद्यते । सपदि प्रकृतार्थसम्बद्धं गमकमेव कुर्यात् नास्यासामर्थ्य न च जाड्यात्पर्षदादयो न प्रतिपद्यन्त इति न विद्वान्निग्रहमर्हति पर्ष प्रतिभासपरिकल्प्याहवच नान्निग्रहार्ह एवेति चेत् । न्यायवादिनो जाड्यादुक्तमजानन्किन्न
कस्यचिदर्थलेशस्य सद्भावात्।आचार्य आह (1)यस्य कस्य चिद(13b3)प्यादिनोपि निरर्थकाभिधाने वाहित इव किन्न निग्रहो भवति । कथं स्यादित्याह (1) निग्रहनिमित्त त्तस्य निरर्थकाभिधानस्य वाद्यवादिनोरविशेषात् । नेति परन्तस्य वादिन इह वादप्रकरणे। आयातमित्याचार्यः। तस्य तेनैव निरर्थकाभिधानेन । तत्रैवं स्थिते वादे तुल्यं । सर्वस्यासाधनाङग वादिनो निरर्थकाभिधायित्वमित्यध्याहर्त्तव्यं । क्वचित्तवेतिपाठः। तत्र नोपस्कारेण किञ्चित्। अनेनैव निरर्थकाभिधानेन । प्रत्युच्यते। यस्य नैव कश्चिदर्थ इति । एतदप्यसम्बद्धं । यस्मान्न च वर्णक्रमनिर्देशोपि निरर्थकः क्वचित्प्रकरणे प्रत्याहारादावर्थवत्वाच्च। तस्मादत्रैव वादेस्य वर्णक्रमस्यानर्थक्यं । तच्चान्तिरादेरपि तुल्यमिति चित्तं कक्कङपिङिगतमित्यत्रादिशब्देन उत्प्लुत्य गमनं तालदाननृत्त[? नृत्य]ादीनाङगहणं ॥४॥
त्रिर भिहितमिति त्रिवचनङकार्यमिति न्यायत्वं दर्शयति। सकृदूक्तं स्पष्टार्थमपि कदाचिन्न ज्ञायत इति त्रिरुच्चारणङकार्य । कस्मात्पुनः पदवाक्यप्रमाणविद्
कपोलवादितककक्ष्याभिताडनादीन्यपि कामं निर्दिश्यन्ताम् । अत एवो न्मत्तप्रलापतः शाक्यभिक्षवोऽपि परिशुद्धबोधिनः परलोकयाथार्थ्यदर्शिनः शौचाचारव्यवहारेष्वबाह्या महान्तो विद्वांसः काममर्थशून्यमपि कथयन्तो नोन्मत्ता भवितुमर्हन्ति ।" न्या० म० ६४७ ।