________________
२-न्यायमतखंडनम्
[९९ समर्थने कर्तव्ये तदकृत्त्वा परस्य प्रसङ्गेनाप्रसङ्गेन वाऽजनान्तरी(य)कस्याभिधानमुत्तरवादिनोपि दोषो'द्भावनमात्रादपरस्योपक्षेप इति ॥
___ वर्णक्रमनिर्देशवन्निरर्थकं (न्या०५।२।८)। “यथा नित्य (:) शब्दो जबगडत्वात् झभघढवदिति” “साधनान्युपादानान्निगृह्यत" इति (1) इदमप्यसम्बद्धं नहि वर्णक्रमनिर्देशसिद्धावानर्थक्यं यदेव किञ्चिदसाधनाङ्गस्य वचनं तदेवानर्थकं साध्यसिद्धयु पयोगिनोऽभिधेयस्याभावात् 13b निष्प्रयोजनत्वाच्चेति । प्रकारविशेषोपादानमसम्बद्धं। वरुपादानाददोष इति चेत् । स्यादेतद्वर्णक्रमनिर्देशवदिति वतिरत्रोपात्तः सोन्यदाप्य. ननुरूपं गृह्णातीत्यदोष इति नार्थान्तरादेनिग्रहस्थानस्यावचनप्रसङ्गात् । एवं हि ता निरर्थर [? निरर्थका] वाच्या निरर्थकेनैवाभिधानाहित [? तं]न साध्यसिद्धावनर्थकं निरर्थकं यस्य नैव कश्चिदर्थस्तनिरर्थकमिष्टमिति चेत् । यस्य कस्यचिदवादिनो पि हि निरर्थकाभिधाने किन्न निग्रहो निग्रहनिमित्ताविशेषात् । तस्येहाऽप्रस्तावादिति चेत् । आयातमिह यो निर
योरेकस्यापि जयपराजयावित्युक्तं । प्रकृतं परित्यज्येति न्याय्यतामेवास्य प्रतिपादयति । प्रकृतमत्र साध्यसाधनहेत्वभिधानं तदकृत्वेति उपन्यस्ते दोर्षे न समर्थनं। अपरस्य(13a7)रूपसिध्यादेः। अतन्नान्तरीयकस्यापीति। उपन्यस्तसाधनसमर्थनाङगस्येत्यर्थः । अपरस्य नामादिव्याख्यानादेरुपक्षेपः पराजयस्थानमिति वर्तते ॥४॥ __ वर्णक्रमनिदेश(व)निरर्थकं (न्या० सू० २।११८) यत्र वर्णा एव केवलं क्रमेण निदिश्यन्ते। न पदन्नापि वाक्यं । अर्थान्तरे किलाप्र कृतार्थकथनमिह वर्णमात्रोच्चारणमिति शेषः॥ असम्वद्धतामेवाह । नहि वर्णक्रमनिर्देशादेव(13a9)केवलादानर्थक्यमपि तु यदेव किञ्चिदसाधनाङगस्यासिद्धविरुद्धादेः शब्दरूपसिध्यादेश्च वचनन्तदेवानर्थकं । किं कारणं । साध्यसिद्धयुपयोगिनोऽभिधेयस्याभावात् । साध्यसिद्धयुपयोगिनोभावे पि कस्यान्यत्प्रयोजनमस्तीत्यपि न मन्तव्यं इति कथयति । निष्प्रयोजनत्वाच्चेति। साध्यसिद्धेरेव प्रस्तुतत्वादन्यप्रयोजनवत्वेपि आनर्थक्यमेव तत्र प्रस्ताव इत्यभिप्रायः। तस्मात्प्रकारविशेषोपादानवर्णक्रमनिर्देशवदित्यसम्बद्धं । परः प्राह । न साध्यसिद्धौ यदनर्थकमनङगन्तन्निरर्थकमभिप्रेतमपि तु यस्य वचनस्य 63a काकवासितादेरिव नैव कश्चिदर्थः । तथा च नार्थान्तरापार्थकादीनामनेनैव संग्रहस्तत्र
१"कीर्तिनाप्यनुमोदितं"--न्या० मं० पृ० ६४६ ।
१३