________________
९८]
वादन्यायः
प्रकृतादादप्रतिबद्धार्थमर्थान्त(रं ) (न्या० ५।२७)। "यथाक्तलक्षणे पक्षप्रतिपक्षपरिग्रहे हेतुतः साध्यसिद्धौ प्रकृतायां कुर्यानित्त्यः शब्दोऽस्पशेत्त्वादिति हेतुः । हेतु*श्व नाम हिनातेधोतोस्तुशब्दे प्रत्यये कृदन्तं पदं(।) पदश्च नामाख्यातोपसर्गनिपाता इति प्रस्तुत्य नामादीनि व्याचष्टे । इदमर्थान्तरं" नाम निग्रहस्थानं "अभ्युपगतार्थासङ्गतत्त्वादिति" । न्याय्यमेतन्निग्रहस्थानं पूर्वोत्तरपक्षवादिनोप्रतिपादिते दोषे प्रकृतं परित्यज्यासाधनाङ्गवचनमदोषोद्भावनाञ्च । साधनवादिना ह्युपन्यस्तसाधनस्य
परिमाणञ्चतुरस्त्रम्परिमण्डलमित्यादि । मृत्पूर्वकाणामित्यन्वयमाह। अस्य हेतोयभिचारेण प्रत्यवस्थानं प्रतिवादिना क्रियते। नानाप्रकृतीनाङगवारवादीनामेकप्रकृतीनाञ्च कुम्भोदञ्चना दीनान्दृष्टम्परिमाणमित्येवं प्रत्यवस्थिते सति प्रतिवादिनि । यदि वा प्रत्यवस्थितः प्रतिषिद्धः प्रधानवाद्याह । एकप्रकृतिसमन्वये सति परिमाणदर्शनादिति सविशेषणत्वाद्धतोर्व्यभिचाराभाव इति मतिः। कथं पुनरेकप्रकृतिसमन्वय इत्याह । सुखदुःखमोहसमन्वितं हीदं व्यक्तं परिमितं गृहय ते । सर्वत्र तत्कार्यदर्शनादित्याकूतं। तथाहि सुखबहुलानाम्प्रसादलाघवप्रसवाभिष्वङगाद्धर्ष प्रीतयः कार्य। रजोबहुलानां शोषतापभेदस्तंभोद्वेगापद्वेषाः। तमोबहुलानां सावरणमादनायध्वंसवीभत्सदैन्यगौरवाणि । एतानि च सर्वाणि सर्वत्रैव यथोत्कर्षापकर्षभेदमुपलभ्यन्ते। तस्मात्त्रैगुण्यप्रकृतीदं विश्वं । तदिदमित्यादिना निग्रहस्थानत्वे कारणमाह । अत्रापीत्याद्यस्य प्रतिषेधः सुज्ञानः। अविरामावच्छेदादपरिसमाप्तत्वात् साधनाभिधानस्येत्यर्थः॥०॥
यथोक्तलक्षण इत्येकाधिकरणौ विरुद्धौ धर्माविति पक्षप्रतिपक्षलक्षणं स्मरयति । परिग्रहे वादिप्रतिवादिभ्यां कृते सति हेतुतः साध्यसिद्धौ प्रकृतायां
हेतुवसा[? शा]त्साध्यसिद्धिरित्येतस्मिन्प्रकरणे सति प्रकृतोर्थः शब्दनित्यत्वं । तेना62b सङगतत्वात् । तदसम्बद्धत्त्वात्तदनुपकारकत्वादित्यर्थः (1) तथा हि विनापिरूपसि
या प्रातिपदिकादिव्याख्यानं यथा कथञ्चित्प्रतिपादितादर्थादेवार्थः सिध्यति । न्याय्यमेतदिति स्वमतेनाविरुद्धत्वादभ्यनुजानाति । कदा च पूर्वोत्तरपक्षवादिनो
ाय्यं निग्रहस्थानमित्याह। प्रतिपादित दोषे सति वादिप्र (ति)वादिभ्यामन्योन्यमसाधनाङगवचनमेतददोषद्भावनञ्च भवेदिति . अन्यथा न हय (न)
'दप्रतिसंबन्धार्थमर्थान्तरम्-इति न्यायभाष्ये पाठः । न्या० भा० पृ० २६० ।
न्या० वा० पृ० ६४६ ।