________________
२-न्यायमतखंडनम्
[९७ भावो नाम निग्रहस्थानं । प्रपलायमानस्य प्रपलायितन्नामेति एवमन्य न्य [? द ]पि वाच्यं स्यात् (1) तस्मादेतदप्यसम्ब(द्धमिति ॥'
अविशेषोक्ते हेतौ प्रतिषिद्धे विशेषमिच्छतो हेत्वन्तरं (न्या० ५।२।६) निदर्शनमेकप्रकृतीदं वक्तव्यं परिणामात्मृत्यूर्वकाणां शरावप्रभृतीनां दृष्टं परिमाणमिति । अस्य व्यभिचारेण प्रत्यवस्थानं नानाप्रकृतीनामेकप्रकृतीनाञ्च दृष्टं परिमाणं इति । एवं व्यवस्थित [ ? प्रत्यवस्थित ] आह । एकप्रकृतिसमन्वय प्रकाराणां परिणामदर्शनात्सुखदुःखमोहसम- 13a न्वितं हीदं सर्व व्यक्तं परिगृह्यते । तस्य प्रकृ(त्य )न्तररूपसमन्वयाभावोऽसत्येकप्रकृतिकत्त्वमिति तदविशेषोक्त हेतौ प्रतिषेधं ब्रुवतो हेत्वन्तरम्भवति । सति हेत्वन्तरभावे पूर्वस्य हेतोरसाधकत्त्वान्निग्रहस्थानं' (1) अत्रापि पूर्वस्यैव हेतोरनैकान्तिकस्याभिधानानिगृहीते हेत्वन्तरचिन्ता कोपयुज्यते । यदि प्राक्साधनवादी हेतुमनैकान्तिकमुक्त्वा दत्तोत्तरावसरस्तेनैव निगृह्यते । अदत्तोत्तरावसरो हेत्वन्तराभिधानेपि न निग्रहमहत्यविरामात् ॥ ॥
अकरोतीति । असम्बद्ध मुच्यते तन्नाभिप्रायापरिज्ञानात् । न बूमो ध्वंसी शब्द इति किन्तु संयोगविभागाभ्यां न व्यक्त इत्ययं प्रतिज्ञातार्थ इत्याह सामान्यस्य च स्वाश्रयव्यङग्य त्वात् विवादाभाव इति। निग्रहस्थानन्तु पूर्वमप्रतिज्ञातार्थत्वात् । अनैकान्तिकदोषेण प्रतिषेधे हेतौ प्रतिज्ञातापह्नवङकरोतीति निगृह्यत इति तत्रवाच्यं यदि वादी साकांक्ष एवान्तराले केनचिद् दुग्विदग्धेनानकान्तिकदोषेण चोदितः सन्प्रतिज्ञातार्थफलीकरणेन स्वाभिप्रायमाविष्करोति । तदा न्योपि न कश्चिदोषः। किमङग पुनः प्रतिज्ञासंन्यासः। अथ निराकांक्षः सन् पश्चाच्चोदितः प्रतिज्ञां विशिनष्टि। तदप्यनैकान्तिकदोषेणैव निगृहयत इति कि'मुत्तरप्रतिज्ञासंन्यासापेक्षयेति न किञ्चित्परिहृतं किञ्च स्फुटमिदं प्रतिज्ञान्तरेन्तर्भवतीति नः पृथग्वाच्यमिति ॥४॥
अविशेषोक्ते हेतावित्यादि सूत्रं अत्र निदर्शनमुदाहरणमित्यर्थः। कापिलः प्रमाणयति प्रधानसिद्धिप्रत्याशया। एकप्रकृतीदं व्यक्तं व्यक्तादिपरिमितत्वाद् घटशरावादिवदिति। एका प्रकृतिरस्येति विग्रहः। प्रकृतिरुपादानकारणं। या च 62a किल सा प्रकृतिविकारग्रामस्य तत्प्रधानमितीयमलोकप्रत्यासा[? शा] साडल्यस्या
'न्यायभाष्ये (२५९-६०) अल्पभेदेन ।