________________
९६]
वादन्यायः मस्तीति तत्सम्बन्धीनि सर्वाण्येव हेत्वाभासतावचनेनैवोक्तानीति न पृथरवाच्यानि स्युः । अर्थान्तरगमनादेरपि हेतोरसा( म )र्थ्य एव सम्भवात् । नहि समर्थे हेतौ साध्ये च सिद्धेऽर्थान्तरगमनं कश्चिदारभतेऽसमर्थस्य मिथ्याप्रवृत्तेरिति ॥ त॥
पक्षप्रतिषेधे प्रतिज्ञातार्थापनयनं प्रतिज्ञासना [? न्या]सः (न्या० ५।२।५)। यं प्रतिज्ञातमर्थमनित्य(8) शब्द ऐन्द्रियकत्वादिति सामान्यवृत्त्या हेतोर्व्यभिचारप्रदर्शनेन स प्रतिषेधे कृते क एवमाहानित्यःशब्द इति परित्यजति तस्य प्रतिज्ञासंन्यासो नाम निग्रहस्थानमिति । अत्रापि यद्युद्भावितेपि हेतोर्व्यभिचारे न सपक्षं किं न गृह्येतानिगृहीत एव हेत्वाभासाभिधानादिति चेत् । किमिदानीमुत्तर प्रतिज्ञान्यासापेक्षया तस्य तदेवाद्यन्निग्रहस्थानमिति किमन्यैरशक्यपरिच्छेदैः क्लीवप्रलापचेष्टितैरुपन्यस्तैरेव क्षतिप्रसङ्गः स्यात् पक्षप्रति ( ? )प्रतिषेधे तूष्णींभवतस्तूष्णी
नोऽज्ञानादीनि हेत्वाभासस्पर्शानि संतीति कथनार्थ । तत्सम्बन्धीनीति हेत्वाभासपूर्वपक्षवादिसम्बन्धीनि वा। अथोच्यते। अर्थान्तरगमनादीनां हेत्वाभासासंस्पर्शित्त्वा न्न तेस्व[?ष्वन्तर्भाव इति। तच्चासत् । अर्थान्तरगमनादेरपि हेतोरसमर्थ एवमतिसम्भवात्। कुतः असमर्थस्य न्यायबलेन साध्यप्रतिपादने वादिन इति शेषः। मिथ्याप्रवृत्तेरर्थान्तरगमनादिनेत्यभिप्रायः॥४॥
उत्तरः पश्चाद् फलभावी स चासौ प्रतिज्ञासन्यासश्च तस्यापेक्षया किन्न किञ्चि61b वित्यर्थः । अशक्तः परिच्छेदः संख्ये येषां क्लीवप्रलापचेष्टितानां तानि तथा क्लीवा
दीनां प्रलापा येषां वादिनान्तेषां चेष्टितानि प्रतिज्ञासंन्यासादीनि वै किमुपन्यस्तैः (1) क(:) पुनरेवं सति दोष इत्याह । एवं यतिप्रसङगः(11b6)स्यात् । एवमाद्यपीति मच्छविपथनसत्त्वादीनामादिशब्दनावरोधः। तस्मादेतदप्यसम्बद्ध विद्वत्सदस्येवं प्रकारस्य स्थूलत्वादित्याभिप्रायः तदत्र भाविविक्तः स्वयमाशंक्य किल प्रतिविधत्ते स्थूलत्वेनेदं निग्रहस्थानमिति चेत्। प्राश्निकप्रतिवादिसन्निधौ प्रतिज्ञातापह्नव
न्याय-भाष्य पृ० २५९; न्या० वा. ५५४।
न्या० वा. ता. (७०७)--"किमिदानी हेत्वाभासादुत्तरसंन्यासापेक्षया तस्य प्रतिवादिनो हेत्वाभास एवाचं निग्रहस्थानमिति ।"
तत्रैव--"पक्षप्रतिषेधे तूष्णींभवतस्तूण्णीभावो० प्रलपतश्च प्रलपितं
नाम ।"