________________
- २-न्यायमतखंडनम्
[९५ त्त्वे ब्रुवाणोऽसमर्थत(या) साधनाङ्गत या संशयहेतुमेवाहेति । यत्पुनरुक्तमुभयपक्षसंप्रतिपन्नेन वस्तुना ऽनैकान्तिकचोदनेति तत्राप्यवश्यं संशयहेतुत्त्वमुखेनैवानैकान्तिको वक्तव्यः । तदसमर्थि' तेऽन्यत्रापि तुल्यमिति नोभयसिद्धतरयोरनैकान्तिकत्त्वैविशेषः।
यदप्युक्तं दृष्टान्ताभासहत्वाभासपूर्वकत्त्वात्तदभिधानेनैवोक्ता इति न पृथग्निग्रहस्थानेषूक्ता इति । तदप्यवयवान्तरवादिनोऽयुक्तं योऽवयवान्तरं दृष्टान्तहेतोराह तस्य न हेत्वाभासोक्त्या दृष्टान्ताभासोक्तिप्प्या तद्वचनेन गम्यमानस्य तस्मात्साधनान्तराभावप्रसङ्गात् । दृष्टान्ताभासानां हेत्वाभासेप्यन्तर्भावाद् दृष्टान्तस्यापि हेतावन्तर्भाव इष्टो भवति । तथा च न दृष्टान्तः पृथक साधनावयवः10 स्यादपृथग्वृत्तेः । यो दृष्टान्तसाध्योर्थस्तस्य I2b हेतावन्तर्भावातुनैव साधित इति न दृष्टान्तस्य पृथक्किश्चित्सामर्थ्य । अपि च न किञ्चित्पूर्वपक्षवादिनो हेत्वाभासासंस्पर्शे न्याय्यं निग्रहस्थान
देकपक्ष प्रतिपन्नमनैकान्तिकविषयत्वाच्चानकान्तिकमिति व्याख्यातं । स्याच्चित्तन्नानिष्टेर्दूषणं सर्वप्रसिद्धस्तु द्वयोरपि साधनं । दूषणम्वेत्येतत्कथमेवन्न व्याहन्यत इति तच्च नैवं । निश्चितदूषणाभिसन्धिवचनात् । तत एव तदनन्तरमाहान्यः पुनः साध्यत्वमीक्षत इति । एतत्तु स्यात् । तदा द्वयोरेकस्यापि न जय पराजयौ । यदप्युक्तमुद्योत करेण प्रतिज्ञाविरोधसूत्रमेव विवृण्वता दृष्टान्ताभासा इत्यादि तदप्यवयवान्तरवादिनो नैयायिकस्यायुक्तं । बौद्ध एवैवं ब्रुवाणः शोभत इत्यभिप्रेतं (1) तद्वचनेन हेत्वाभासवचनेन गम्यमानस्य दृष्टान्ताभासस्य तस्माद्धेतोः सकाशात् साधनान्तरत्वा- 6ra भावप्रसङगात् । दृष्टान्तस्येति शेषः।
ननु च दृष्टान्ताभासानां हेत्वाभासेष्वन्तर्भावेऽतिदिष्टे हेतोर्दष्टान्तेऽवयवान्तरं न प्राप्नोतीति वचन'मसम्बद्धमेवेत्यत आह । दृष्टान्ताभासानामि (12a9)त्यादि। अयमस्य प्रयोगो मनसि विजृम्भते । यद्यतोऽर्थान्तरभूतं न तदाभासवचनेन तदाभासवचनं न्याय्यं न च तदाभासेषु तदाभासानामन्तर्भावः । तद्यथा प्रत्यक्षाभासानामनुमानाभासेषु । तथा च भवतो हेतोदृष्टान्तोर्थान्तरभूत इति व्यापकविरुद्धोपलब्धिः अतोऽवश्यं दृष्टान्तस्य हेतावन्तर्भाव एष्टव्यः। तत्र च न दृष्टान्तः पृथक् साधनावयवः स्यात् । अपृथग्वृत्तेः एकव्यापारत्त्वादित्यर्थः । एतदेव व्या चष्टे यो दृष्टान्त (12br) इत्यादिना । एवं प्रतिज्ञाहेत्वोविरोधस्य प्रपञ्चस्य हेत्वाभासः सङगृहीतत्वान्न पृथग्वचनं कर्त्तव्यमित्यभिधायाधुना प्रतिघहान्यादीनामपीयमेव गतिरित्यावेदनायाह । अपि चे(12br)त्यादि। पूर्वपक्षवादिग्रहणमुत्तरपक्षवादि