________________
९४]
वादन्यायः प्रतिपन्ने गोत्त्वे हेतुवृत्तेः संशयानोऽप्रतिपत्तिमात्मनस्तथा ख्यापयति स च हेतुः सत्यसति गोत्त्वेऽप्रसाधितसाधनसामर्थ्यः संशये हेतुत्त्वादनैकान्तिक एव । प्रसाधिते तु सामर्थे गोत्त्वेऽवृत्त्या हेतो [? हेतौ न संशय एव सर्वसंशयप्रकाराणां परिहारेण समर्थनात् । एतेन स्वपक्षानपेक्षहेतुप्रयोगस्यानैकान्तिकता व्याख्याता । सोपि स्वाभि(म)तनित्यगोत्त्ववृत्तिहेतुमनित्य
वाध्यारोप्याभिदध्याद व्यभिचारं तदा तस्य बौद्धस्य तत्सामान्यमैन्द्रियकं नित्यञ्च स्वपक्षविरुद्धं नित्यपदार्थानभ्युपगामान्नाभिमतमतश्च कथं व्यभिचार इति . विरोधो व्याहतिरयुक्तत्त्वमिति यावत् युज्यत उत्तरस्येत्यध्याहर्तव्यं । न तु पुनरेवमसौ परस्येवोपरि भारमुपक्षिप्य व्यभिचारमुद्भावयति तत्कथमुत्तरस्य विरोधः यतः स हयुत्तरवादी स्वयं प्रतिपन्ने नित्यत्वेन गोत्वे हेतोरैन्द्रियकत्वस्य वृत्तेः संशयानः सन् किङघटवदैन्द्रियकत्वादनित्यः शब्दो भवतु किम्वा गोत्वा दिवन्नित्य इत्यप्रतिपत्तिमनिश्चयमात्मनस्तथा ब्रुवाणः ख्यापयति सत्पक्षे खल्वेन्द्रियकमपि गोत्वं नित्यं तस्मादयं सांप्रत्यनैकान्तिक इती त्थमात्मीयमेवाभ्युपगमं पुरस्कृत्यानेकान्तञ्चोदयति । ततः साध्विवोत्तरमिति समुदायार्थः । स्यात् मतम्बौद्धस्य नास्त्येवगोत्वं नित्यं ततो व्याहतमेवोत्तर मित्यत आह । स च हेतु(12a5) रैन्द्रियकत्वादिति सत्यसति वा गोत्वे परमार्थतः। अप्रसाधितसाधनसामर्थ्यः सन् विपर्यये बाधकप्रमाणावृत्या संशयहेतुत्वाद नैकान्तिक एव । अप्रसाधितं साधनाय सामर्थ्य साध्या
विनाभावित्वलक्षणमस्येति विग्रहः । साधनशब्दो भावसाधनः । यदा तु बाधक6ob प्रमाणबलेन हेतोरवि नाभावं सोपसंहारेण साधयति यत्किञ्चिदिन्द्रियज्ञानग्राहचं
स्वनि सज्ञानजनकत्वात्तत्र सर्वमनित्यं नित्यत्वे सर्वदा तद्विषयं ज्ञानं प्रसञ्जते न वा कदाचिदपि तथाहि ।
स्वात्मनि ज्ञानजनने यच्छक्तं शक्तमेव तत् । अथवाऽशक्तं कदाचिच्चेदशक्तं सर्वदैव तत् ॥(३५) तस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता । नित्यत्वादचिकित्स्यस्य कस्तां क्षपयितुं क्षम (३६) इति ॥
तदानीं गोत्वादीनामपि नित्यानामेकप्रघटेन इव पाटितत्वात् गोत्वे हेतोरवृत्तेर्न संशय एव भवति। एतेने (12a6)त्यादि सुज्ञानं । तत्राप्यनैकान्तिकहेत्वाभासत्वानतिवृत्तिरिति संक्षेपः। तत्संशयहेतुत्वमुखेनानकान्तिकत्वमसमर्थिते सति हेतौ। अन्यत्रापीत्येकपक्षप्रतिपन्नेपि वस्तुनि तुल्यमिति नोभयसिद्धतरयोर्वस्तुनोरनकान्तिकत्वविशेषः। यथा कथितमनन्तरमेव । स च हेतुः सत्यसति वेत्यादिना । इतर