________________
२-न्यायमतखंडनम्
[९३ श्चिन्तामर्हति । हेतोरपि दृष्टान्तविरोधेऽसा(धा )र( ण )त्वंविरुद्धत्वं वा वैधवें यदि वृत्तिः स्यात् । प्रमाणविरोधे तु हेतोर्यथा न दहनोऽग्निः शैत्यादित्यादि ह्यसिद्धो हेत्वाभासः। प्रतिज्ञायाः प्रमाणविरोधः स्ववचनविरोधेन व्याख्यात इति । सर्व एते साधनविरोधे हेत्वाभासेष्वेवान्तर्भवन्तीति हेत्वाभासवचनेनैवोक्ताः।
यत्तु विरुद्धमुत्तरं परपक्षे स्वसिद्धन गोत्वादिनाऽनैकान्तिकचोदनेति। तदसम्बद्धमेव। यदि हि स्वसिद्धेन गोत्वादिनापरस्य व्यभिचारसिद्धिमाका(झ)त तस्य तत् स्वपक्षविरुद्धं नाभिमतमिति विरोधो युज्येत । स हि स्वयं
र्थान्तरत्वेनानुपलब्धानामपि पिशाचादीनां परस्परव्यतिरेकित्वात् । न चात्र घटवदिति दृष्टान्तो युक्तस्तस्यैव द्रव्यान्तरत्वेन पक्षीकृतत्वात् । तस्य रूपादिभ्यो भेदेन ग्रहणं पूर्वमेव प्रतिसि[? षिद्धं ग्रहणे चासिद्धो हेत्वाभास इत्यस्मन्मतमेव स्थितं । अथ हेतोः प्रमाणविरोधे को हेत्वाभास इत्याह । असिद्धोग्नेः शैस्यस्याविद्यमानत्वात् । यत्पुनरत्रो दाहरणमन्यदनुष्णोग्निद्रव्यत्वाज्जलवदिति तदयुक्तं । नहि प्रत्यक्षं द्रव्यं हेतुं बाधते । तस्य धर्मिणि सिद्धत्वात् । किन्तु प्रतिज्ञार्थमनुष्णत्वं ।' अथ प्रतिज्ञार्थस्य प्रत्यक्षेण बाधितत्वाद्धेतोस्तेन व्याप्तिास्तीति हेतोः प्रमाणविरोध उच्यते । एवन्तर्हि विरुद्धेन साध्यधर्मेणाव्याप्तेः सन्दिग्धव्यतिरेको हेत्वाभास इत्यस्मत्पक्ष एव समर्थितः।
हेतोः प्रमाण[? मान]विरोधस्य हेत्वाभासानतिक्रमात् ॥ (३३) तदुक्तम् प्रत्यक्षादि (वि)रोधा ये व्याप्तकालो पपातिनः । ते सर्वे न विरुद्धेन व्याप्तिधर्मेण युञ्जत (३४) इति ॥
स्यान्मतम्प्रतिज्ञायाः प्रमाणविरोधस्तन्मात्रभावित्वाद्धेत्वाभासेऽन्तर्गमयितुं न पार्यत इत्यत आह ।' प्रतिज्ञायाः प्रमाणविरोधः स्ववचनविरोधेन व्याख्यातः(12a2) कृतप्रतिक्रियस्तत्रेदमेव निग्रहाधिकरणमसाधनाङगभूतायाः प्रतिज्ञायाः साधनवाक्ये प्रयोग इत्यादिना। इति तस्मात् सर्व एवेत्युपसंहरति । यत्तु विरुद्धमुत्तरमिति पूर्वपक्षोक्तमपरमुपक्षिपति तदसम्बद्धमेव । यस्माद्यदि ही (12a3)त्यदि । अनि त्यः 6oa शब्द ऐन्द्रियकत्वाद् घटवदित्येकं बौद्धनान्येन वा कृते मीमांसक: काणादोन्यो वा स्वपक्षसिद्धेन गोत्वादिना सामान्येन परस्य साधनवादिनो बौद्धस्य हेतोर्व्यभिचारसिद्धिमाकांक्षेत गोत्वमप्यन्द्रियकं तदपि भवतोऽनित्यं प्रसज्यत इत्येव यदि परं प्रत्ये.