________________
९२]
वादन्यायः साधर्म्यदृष्टान्ते च विपरीतधर्मावति वस्तुतः साध्याव्यभिचारेपि हेतो व्यभिचारधर्मता शक्या दर्शयितुमिति । नाप्रदर्शिताविनाभावसम्बन्धाद्धेतोनिश्चयः तन्न प्रतिज्ञया दृष्टान्तविरोधो हेत्वाभासानतिवर्त. ते । उभयवापि दोषोस्त्विति चेत् । न (।) न हेतुदोषस्य प्राक् प्रसङ्गो
न पराजितस्य दोषान्तरानपेक्षणात् । विशेषणं साधनावयवानुक्रम1 2a नियमा वादिन उदाहरणसाधम्म्यै हेतु लक्षणं विरुद्ध दृष्टान्ते न सम्भव
तीति प्राक्प्रयुक्तस्य हेतोर्दोषेण पराजय इति नोत्तरदृष्टान्तापेक्षया विरोध
| त्रिरूपो हेतुरित्युक्तं पक्षधर्मे च संस्थितः । , रूढे रूपद्वयं शेषं दृष्टान्तेन प्रदर्श्यत इति ।(३२)
ननु च कथमशक्या यावता प्रत्ययभेदभेदित्वमनित्यत्वाव्यभिचार्येव तत्वत इत्यत आह। वस्तुतः साध्याव्यभिचारेपी (11b7)ति । विद्यमानोप्यव्यभिचारः 59a प्रमाणेनाप्रतिपादितत्वादसत्कल्प इति भावः। तदेतन्नाप्रदर्शिताविनाभावसम्बद्धा
खेतोः साध्यनिश्चयः । तत्तस्मान्न प्रतिज्ञाया दृष्टान्तविरोधोपि हेत्वाभासानतिवर्तते। अस्यापि तदानीं संदिग्धविपक्षव्यावृत्तिकत्वादित्यागूरितं । न केवलहेतुविरोध इत्यपि शब्दः परमतमास [? श] डकते। उभयथापि हेतुद्वारेण दृष्टान्तद्वारेण च । न हेतुद्वारेण प्राग्दृष्टान्तदोषात् प्रसङगेन पराजितस्य वादि नो दोषान्तरस्य दृष्टान्तविरोधस्य वाच्यस्य वानपेक्षणात पराजितपराजयाभावादित्याकूतं । विशेषेण साधनावयवानुक्रमवादिनो नैयायिकस्य स हि प्रतिज्ञाहेतूदाहरणोपनयनिगमनानामानुपूर्वी प्रतिपन्नः । कः पुनः तस्यातिशय इत्याह। उदाहरणसाधर्म्यमि (IIb9)त्यादि । अङगीकृत्य चेदमवादि'न तु दृष्टान्तविरोधो हेत्वाभासरूपासंस्पयस्ति । यथोक्तमनन्तरमिति। एतेन विकल्पतो दोषविधानं प्रत्युक्त। एवन्तावद्वयवस्थितमेतद्यथा प्रतिज्ञाया दृष्टान्तविरोधो हेत्वाभासानातिवर्तत इति । यत्पुनरुदाहृतमविद्धकरणेन भाष्यटीकायां व्यक्तमेकप्रकृतिकं परिमितत्वाच्छरावादि वविति । तत्रापि विरुद्धो हेतुः परिमितत्त्वस्य हेतोः सपक्षेऽभावे वा वृत्तेः। विपक्षे चानेकप्रकृतिके शराबादौ वृत्तः। मृदः प्रतिक्षणं प्रत्यवयवञ्च भिद्य'मानत्वात् । संप्रति हेतोरपि दृष्टान्तेन विरोधो हेत्वाभासान्तर्गत इति कथयति। हेतोरपि दृष्टान्तविरोधे सत्यसा (धा) रणत्वमुभयत्रावृत्तेः। विरुद्धत्वम्वा । कदा विरुद्धत्त्वमित्याह । वैधयें
यदि स्यादप्यत्रोदाहरणमुक्तं तेनैव गुणव्यतिरिक्तं द्रव्यमर्थान्तरत्वेनानुपलभ्यमा59b नत्वाद् घटवदिति अत्रापि दृश्यत्वे सतीति हेतुविशेषणे विरुद्धः सपक्षे अवर्तमान
त्वात्। विपक्षे च रूपादीनां स्वरूपे वर्तमानत्त्वात् । विशेषणानुपादाने तु व्यभिचारो