________________
२-न्यायमतखंडनम् दृष्टान्ते विरोधः स्यात्, विरुद्ध च दृष्टान्ते यदि पक्षधर्मस्य वृत्तिरनन्यसाधारणा प्रसाध्यते विरुद्धस्तदा हेत्वाभासः । साधारणायामप्रसाधिते वा तद्वृत्तिनियमेऽनैकान्तिकः । अवृत्तौ वा साधारणः ।
विरुद्धदृष्टान्तवृत्तौ विपर्ययवृत्तौ च हेतोर्न कश्चिद्वेत्ति दोषो दृष्टान्तविरोधश्च प्रतिज्ञया इति चेत् । न (1) तदपि संशयहेतुत्वात् । निवृत्तेदृष्टान्तविरोधो हि प्रतिज्ञायाः । साधर्म्य दोषो न वैधयेऽभिमतत्वात् ।
सौ धर्मश्च तस्य विपर्ययः स विद्यते यस्मिन्निति विग्रहः। दृष्टान्त इति च साधर्म्यदृष्टान्तो। अभिप्रेतः। यस्मा द्वैधर्म्यदृष्टान्तः साध्यधर्मविपर्ययवानैव तत्र को विरोधः। तत्रोदाहरणं । नित्यः शब्दो घटवदिति । विरुद्ध च दृष्टान्ते सति यदि पक्षधर्मस्य वृत्ति रनन्यसाधारणा प्रसाध्यते प्रमाणेन विरुद्धस्तदा हेत्वाभासः। नान्यसाधारणेत्यनन्यसाधारणा। अन्यशब्देन पक्षीकृतधर्मविपर्ययवतः पृथग्भूतः पक्षीकृतधर्मवानभिप्रेतः पक्षीकृतधर्मविपर्ययवत्येववर्तते इत्येवं यदि साध्यत इत्यर्थः । यथानयोरेव साध्यदृष्टान्तयोः कार्यत्वादिति तद्विपक्षीकृतधर्मबहिर्कोमादौ न वर्तते तद्विपरीले पुनर्घटे वर्तत इति । साधारणायाम्वृत्तौ साधितायां सपक्षविपक्षयोरिति शेषः । अनैकान्तिकः साधारणाख्यः । यथानयोरेव साध्योदाहरणयोः प्रमेयत्वादिति । अप्रसाधिते चातवृत्तिनियमे तयोः सपक्षविपक्षयोवृत्तिनियमे सपक्ष एव वर्तते विपक्ष 58b एवेति अनैकान्तिक एव सन्दिग्धान्वयः सन्दिग्धव्यतिरेको वा। यथा सर्वविद्वीतरागो वा विवक्षितः पुरुषो न वा तथा वक्तृत्वाद्रथ्यानरवदिति । तयोरेव सपक्ष'. विपक्षयोरवृत्तौ वा सत्यामसाधारणः। नित्यः शब्दः श्रावणत्वादिति यथा। परः प्राह विरुद्धदृष्टान्तावृत्तौ हेतोविपर्ययवृत्तौ च सत्यान्न कश्चिद्धतुदोषः तद्यथाऽनित्यः शब्दः प्रत्ययभेदभेदित्वात् नभोवदिति साधर्म्यण। वैधयेण च घटवदिति। अत्र नासिद्धत्वं ध(1)मणि हेतोः सद्भावात् । नाप्यनैकान्तिकत्वमुभ यत्रावृत्तेः । प्रतिबन्धसद्भावाच्च। न च विरुद्धत्वं सपक्षविपक्षयोर्वैपरीत्येन वृत्यभावात् । दृष्टान्तेन तु विरोधः प्रतिज्ञायाः इत्ययं हेतुदोषानति कान्तो विषयः प्रतिज्ञायाः दृष्टान्तेन च विरोधस्येति। इदमपनुदति । न। तदापि संशयहेतुत्वानतिवृत्तेः। यस्माद् दृष्टान्ते न प्रतिज्ञाया विरोधः साधर्म्य दृष्टान्ते दोषो न वैधयें। कस्मादभिमतत्वाद् विरोधस्य। पक्षीकृतधर्मविपर्ययवानेव हि वैधय॑दृष्टान्त उच्यत इत्यभिप्रायः। यदि ना मैवं तथापि कथं हेत्वाभासानतिवृत्तिरित्याह साधर्म्यदृष्टान्ते च विपरीतधर्मवति नभसि नाऽव्यभिचारधर्मता शक्या दर्शयितुं । तदर्थश्च दृष्टान्तः प्रदर्शते ॥ यदाह
१२