________________
वादन्यायः
९०] प्राक् । अनपेक्षे च केवले स्वतः प्रतिविरोधे विवक्षिते प्रतिज्ञाहेत्वोर्विरोध इति हेतुग्रहणमसम्बद्धं । न चोत्पत्तिधर्मात्त्वान्नित्यमित्यत्रापि हेतुविरोधो युक्तः। प्रतिज्ञया हि हेतोर्बाधने हेतुविरोधः। इह तु हेतुना प्रतिज्ञा बाध्यत इति प्रतिज्ञाविरोधो युक्तः। उभयाश्रयेपि विरोधे बाध्यमानविवक्षया तद्विरोध व्यवस्थापनात् । यदप्युक्तं । एतेन प्रतिज्ञया दृष्टान्तविरोधादयोपि वक्तव्या भण्डालेख्यन्यायेनेति । तत्रापि पक्षीकृतधर्मविपर्ययवति
बाधक प्रमाणवृत्तेर्वा। पूर्वस्मिन्पक्षे कण्ठेनैवोक्तो दोष उत्तरत्र शब्देन समुच्चितः। . अत्रौद्योतकरमुत्तरमाशङकते। उभयाश्रयत्वा (ITa9)दित्यादिना। गतार्थत्वात् सुज्ञानं सर्वमेतत् । न सर्वत्रेत्यादिना निराकरोति । यथोक्तं प्राग् न द्वयीं दोषजातिमित्यत्र । अथ प्रतिज्ञामात्रभाव्येव हेत्वनपेक्षः प्रतिज्ञाविरोधो व्यवस्था प्यते यथा नास्त्यात्मा श्रमणा गर्भिणीत्यूत्रेत्यत आह (1) अनपेक्षे च हेतुग्रहणमसम्वद्धं (IIb3)। अनुपकारकत्वात् । यदपीदं हेतुविरोधस्योदाहरणं दत्तं नित्यः शब्द इत्यादिना तत्प्रतिज्ञाविरोधस्य हेतुनायुक्तमिति कथनायाह। न चेदि (11b3) त्यादि। स्यात् मतमुभयाश्रयत्वाद्विरोधस्यैवमपि न हेतुत' एवेत्यत उच्यते उभयाश्रयेपी (IIb4)त्यादि । एवमुपदर्शितान्युदाहरणानि प्रक्षिप्यातिदिष्टदूषणायाह। यच्चोक्तमेतेन प्रतिज्ञायाः दृष्टान्तविरोधादयोपि' वक्तव्या भण्डालेख्यन्यायेने (11b5)ति । इति शब्दो वक्तव्य इत्यत्र प्रतिपत्तव्योऽन्यथापरेणोत्तरस्याप्रयुक्तत्त्वात् दुःश्लिष्टो भवेत । भण्डग्रहणन्नित्यपुरुषोपलक्षणार्थ ।
यथा हि भण्डा प्राकृतान् विस्मापयन्तश्चित्रलक्षणोपेतकपिशालभञ्जिकादिप्रति189 च्छन्दकमालिख्य विचित्रशिल्पकलाकौशलसादि[? शालि]नोऽतिदि शंत्येवं प्रका
राण्यप्यस्मत्कौशलनिमितान्येकतालमात्रेण हस्त्यादिरूपकस्थानानि प्रतिपत्तव्यानीति तथा जातीयकमेतदुद्योतकरस्य। तथा हयेतदेव भाव उप दर्शितहेतुविरोधादिकं हेत्वाभासव्यतिरिक्तलक्षणोपेतं । तदतिदिष्टे पुनः कैव चिन्ता। तामेव चातिदिष्टस्य दृष्टान्तविरोधादेहेत्वाभासव्यतिरिक्त लक्षणापेततामभिधातुमुपक्रमते । तत्रापी (Ib5)त्यादिना। यत्र प्रतिज्ञायाः दृष्टान्तविरोधस्तत्रापि पक्षीकृतधर्मविपर्ययवति दृष्टान्ते सति विरोधः स्यात् प्रतिज्ञायाः दृष्टान्तेनेति शेषः। पक्षीकृतश्चा
"एतेन प्रतिज्ञया दृष्टान्ताविरोधोऽपि वक्तव्यः"--(न्या० वा० ५५३-४); "न चैवं भण्डालेख्यन्यायः एकदेशेनाव्यापकेन समुदायसंग्रहे स हि भवति ।"-(न्या० वा० ता० ७०३)।