________________
२-न्यायमतखंडनम्
[८९ सिद्धताश्चेति । विरुद्धता सिद्ध हेतोचम्मिणि भावे साध्यधर्मविपर्यय एव भावेन प्रतिज्ञाविरोधात् । असिद्धता पुनर्द्धम्मिणि प्रतिज्ञातार्थसिद्धौ विरुद्धयोः स्वभावयोरेकत्रासम्भवात । न चान्यथा विरोधोऽसिद्ध धर्मस्वभावेऽभिहितयोर्हेतुप्रतिज्ञातार्थयोर्विरोधाद्विरोधसम्भव इति चेत् । अप्रमाणयोगे तूभयोर्द्धर्मिणि संशयः । तथा सति हेतो'र्द्धम्मिणि भावसंशयेऽसिद्धतैव हेतुदोष इत्यसिद्धविरुद्धाभ्यामन्यो न प्रतिज्ञया विरोधो नाम पराजयहेतुः। असिविरुद्धे च हेत्वाभासवचनादेवोक्त इति न पृथक प्रतिज्ञाविरो धो वक्तव्य इति ।
उभयाश्रितत्वाद्विरोधस्य विवक्षातोऽन्यतरनिर्देश इतिचेत। स्यादेतत् प्रतिज्ञाहतो? त्वो]र्विरोध इति प्रतिज्ञाहेतू आश्रित्योभयाश्रयोभवति । तत्र यदा प्रतिज्ञाविरोधो विवक्षितस्तदा प्रतिज्ञाविरोध इत्युच्यते । यदा प्रतिIIb ज्ञाया हेतोर्वा विरोधस्तदा विरुद्धो हेतुरिति । अतः प्रतिज्ञाविरोधो हेतुविरोधो वेत्यदोषः। तत्रतोरुदाहरणनित्यः शब्द उत्पत्तिधर्मकत्त्वादिति, प्रतिज्ञाविरोधस्य नास्त्यात्मेति । प्रतिज्ञाहेत्वोः परस्परविरुद्धोदाहरणं गुणव्यतिरिक्तमित्यादि । प्रतिज्ञया हेतुविरोधोदाहरणं नास्त्येको भाव इत्यादिकमिति । न (1) सर्वहेत्वपेक्षस्य विरोधहेत्वाभासानतिक्रमात् । यथोक्तं
इति व्यक्तमस्य विरुद्धत्वं । नित्यः शब्दः कृतकत्वादिवत् । तदाह (1) विरुद्धता सिद्धेर्हेत्वोमणि भाव (IIa6) इति। यदा पुनस्तस्मिन्धर्मिणि प्रमाणान्तरेण साध्यधर्मस्य सत्वं निश्चितं तदा तत्र हेतोरवृत्तिविरोधिना क्रोडीकृतत्त्वात् । अतश्चासिद्धत्वं हेतोः। कृतकः शब्दोऽकार्यत्वादिति यथा। तज्जा' ते असिद्धता पुनर्मिणीत्यादि । अथमन्यसे। प्रमाणेन सिद्ध एव गुणव्यतिरिक्त द्रव्यादौ धर्मिणि प्रतिज्ञाहेतोविरोधो व्यवस्थाप्यते ततो नायं दोष इत्य'त इदमासङकते [? शङकते] असिद्ध (IIb8) इत्यादिना । एवमपि यदि नाम धर्म्यभावेन पक्षधर्मस्यासम्भवात् विरुद्धत्वं परिहृतं। असिद्धत्वं पुनस्तदवस्थमेवेति मनस्याधायाह। प्रमाणयोगे तूभयोर्वादिप्रतिवादिनोधर्मिणि हेतोवृत्तिसंशयः । प्रमाण निवृत्तावप्यर्थाभावासिद्धेः। अतश्चासिद्धतैव सन्दिग्धाश्रयत्वात् । इह निकुञ्ज 57b मयूरः केकायितत्त्वादित्यादिवत् । तु शब्दः प्रतिपादकप्रमाणायोगे धर्मिणः सन्दिग्धाश्रयताहेतोमबाधकप्रमाणवृत्तौ स्फुटमेवाश्रयासिद्धतत्वं ।सवंगत आत्मनि साध्ये सर्वत्रोपलभ्यमाण[?न] गुणत्ववदित्यस्य समुच्चयार्थः । तथा हयसिद्धः धर्मिस्वभाव इत्यत्र प्रतिपादकप्रमाणावृत्तेरसिद्धो धर्मी विवक्षितः स्यात्।