________________
वादन्यायः
८८] वा सति हेतुप्रयोगे व्यधिकरणत्वादसिद्ध इत्यसिद्धता हेतोनिग्रहस्थानं स खलूच्यमान एवातद्धर्म तया प्रतीतो वक्तः पराजयमानयति । पराजिते तस्मिंस्तदर्थविरोधचिन्तया न किञ्चित् । अपि च सर्वत्रायं प्रतिज्ञाहेतो[? त्यो]विरोधः ।सम्भवंत्वमीदोषजातिमभिपतति विरुद्ध ताम
56b
प्राह तम्प्रतीति । तच्चासत्सव्वं पृथग्भावलक्षणपृथग्त्वात् नानेकलक्षणेनकभावनिष्पत्तरित्यत्र प्रस्तावे भारद्वाजेनास्मान्प्रत्येव कामेष्टद्रव्य क इत्यादिना
कमाल सिद्धान्तमस्माकीनमुपक्षिप्याप्यभिधानात् । तथाप्यभ्युपगम्य दोषान्तरमाह। न चायम्पूर्वकाद् गुणव्यतिरिक्तमित्यादिपदसूचितात् परस्परार्थमा धाय भिद्यते। हेतुप्रतिज्ञयोः सम्बन्धिन्योः बाधयोरुदाहरणोपेतयोः पृथग्बाधोदाहरणयोर्न कश्चिदर्थभेदः शब्दभेदस्तु केवलः। तथाविधस्य च पृथगुदाहरणेऽतिप्रसङगोऽकृतकः शब्दः कृतकत्वादित्याद्यप्युदाहर्त्तव्यम्भवेत। सह पृथग्वेति क्वचित्पाठः। तत्रायमर्थः सह योगपद्येन यथा प्रथमे पृथक् प्रत्येकं । यथेह अथवा विरोधचिन्ताप्यत्रायुक्तेत्याह (1) अपिचे (IIas)त्यादि। सव्वं पृथक् समूहे भावशब्दप्रयो (गा) वित्ययं हेतुः। सर्वस्य धर्मिणो धर्म एव न भवति शब्दधर्म त्वादित्यसिद्धः। तथा च व्यधिकरणत्वादसिद्धतैव दोषो गुडो मधुरः काकस्य कायादिति यथा। तत्र न विरोधो भिन्नाधिकरणत्वाद्धेतुप्रतिज्ञार्थयोः। स्याद् बुद्धिः समूहवाचकशब्दवाच्यत्वावित्येवं भाविविक्तेन भाष्यटीकायां प्रयोगाद् व्यधिकरणत्वं नास्ति। एवं मन्यते न तावदयमु द्योतकरेणैवं प्रयुक्तस्य वायमस्माभिर्दोषोभिधातुमारब्धो येपि सम्प्रत्यन्यथा प्रयुञ्जते तेषामपि यद्ययं दोषो न भवति । भवतु अनन्तरोक्तस्तु दोषो वक्ष्य माणश्च ब्रह्मणाऽपि न शक्यते परिहर्तुमिति । प्रतिज्ञाहेत्वोविरोधस्य च निग्रहस्थानान्तरत्वमङगीकृत्य मयेदमभ्यधायि। न त्वस्य तद्युक्तं। हेत्वाभासाश्च निग्रह स्थानानी (न्या० सू० ५।२।२४) त्यनेनैव सङगृहीतत्वादित्येतद्विभणिषुराह । अपिचे (IIas)त्यादि। द्वाववयवौ यस्या दोषजातेर्दोषप्रकारस्य सा द्वयी। कामित्याह । विरुद्धतामसिद्धताञ्च । कथम्पुनविरुद्धतेत्याह। विरुद्धतेत्यादि । अयमत्र संक्षेपार्थः । प्रतिज्ञाहेत्वोर्यत्र प्रयोगे विरोधश्चोद्यते तत्रा'वश्यं सिद्धेन धर्मिणा भाव्यं । सिद्धे च तस्मिन्धर्मणि[? धर्मिणि] हेतोर्वा सत्वम्भवेत् साध्यधर्मस्य। द्वयोर्वा । तत्र न तावत् द्वयोरपि सत्वं परस्परविरोधित्वेन शीतोष्णयोरिव एकाधिकरणत्वाभावात्। अन्यथा सहकत्रावस्थानाद्रसरूपवदविरोध एव भवेदिति प्रतिज्ञाहेत्वोविरोधो दूरतर एवं प्रसज्यते। तद्वक्ष्यति। विरुद्धयोः स्वभावयोरेकत्रासम्भवान्न चान्यथा विरोध इति । अथ हेतोस्तत्र सत्वं । एवमपि यत्र हेतुस्तत्र न साध्यधर्मस्तद्विपर्ययस्तु विद्यत
57a