________________
२-न्यायमतखंडनम्
[८७ योपि युगपत्पङ्कन योगादित्यादिना परमाणो दमाह । न तस्याप्येकः समुच्चयरूपः साधयितुमिष्टः किन्तह्मभाव एव एकानेकप्रतिषेधात् । अतः सोपि न समूहस्तस्येष्टो न तत्र शब्द इति न विरोधः । न विरुद्धोयं पूर्वकात्प्रतिज्ञाहेतुविरोधाद् भिद्यते येन पृथगुच्येत । तत्र हेतुप्रतिज्ञयोधिनमिह प्रतिज्ञया' हेतोरित्यस्ति भेद इति चेत् । अर्थविरोधे हि हेतुप्रतिज्ञयोर्बाध्यबाधकभावः स्यात् । सर्वार्थविरोधो द्विषु इति द्वयमपि परस्परं बाधकमेकार्थसन्निधावपरार्थासम्भवात् । तत्र हेतुप्रति ज्ञयोः पृथग्बाधोदाहरणयोर्न कश्चिदर्थभेदः । अपि चायं विरुद्धो
36а
पङकेन युगपद्योगात् परमाणोः पतङ गतां। । बली v पाता।
षण्णां समानदेशत्वात् पिण्ड: स्यादणुमात्रक (:॥३०) इत्यादिना परमाणोरेकत्वमनभ्युपगच्छन्नपि पिण्डं समूहापरपर्यायमिच्छतीत्येतदुच्यते। योपी(Inar)त्यादि किन्ताभाव एवाणोरनेन प्रकारेण साधयितु मिष्टः । कथं । एकानेकप्रतिषेधात् । पङकायोगादिना तावदेकत्वं प्रतिसि [? षि]द्धं । तत्समुदायरूपमनेकत्वमपि तदभावादेव न विद्यते। यथोक्तन् ननु' (1)
तस्य तस्यै कता नास्ति यो यो भावः परीक्ष्यते । न सन्ति तेनानेकेपि येनैकोपि न विद्यत (३१)इति ॥
ननु पङकयोगादिना कथमेकत्वमपोदितं । यावता तत्र तस्य सावयवत्वमापावितं ॥ त एव चावयवास्तस्याल्पीयांसः परमाणवो विभागपर्यवसानलक्षणत्वात् परमाणूनां । अथ तेषामप्यङगानामनेनैव विधानेन सावयवत्वमापाद्यते । तथा सति तत्राप्येतदेवोत्तरमित्यनेनैव प्रकारेण न शक्यते परमाणोरेकत्वनिषेधं कर्तुं । विभागस्य विभज्यमाण[? न]तन्त्रत्त्वात् । कथञ्चानभ्युपगताणुस्तस्य पङकयोगादिकमभ्युपगच्छतीति तदसत्वप्रतिपादने सर्वे हेतवः स्वत एवाश्रयासिद्धा इति । एतच्च नैवं यस्मात्समर्था वादिनोऽपगतावयवविभागमासादितापकर्षयन्तं भाव मणुरित्याचक्षते तस्य तेन पडकायोगादिनैकत्वमपाक्रियते । ते च यद्येवं निराकृताः सन्तो यथोपगतस्य सावयवत्वं प्रतिपद्यन्ते तदा स्व प्रतिज्ञायाश्च्यवेरन्। न हि अनङगीकृतसावयवत्वास्तथा प्रत्यवस्थानमर्हन्ति। त एवावयवाः सन्तु परमाणव इति । तैरेव च तल्लक्षणम्व्यवस्थापनीयं योगाचा'रेण च निषेध्यमिति निगृह्यन्ते । अत एव नानवस्था। प्रसङगसाधनत्वाच्चासिद्धतादोषोपि नास्तीत्यलमेतेन। अथोच्यते न वयं भवन्तं प्रतीदं ब्रूमो यस्तु कश्चिदधौ तपादो वाद्येवं